भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 5.2

5.2.1

अथ.यद्.अग्नीषोमौ.प्रथमौ.देवतानाम्.यजति ।

5.2.2

दार्शपौर्णमासिके.वा.एते.देवते । (चातुर्मास्य)

5.2.3

तस्माद्.एनौ.प्रथमौ.यजति ।

5.2.4

अथ.यत्.सवितारम्.यजति ।

5.2.5

सविता.वै.प्रसवानाम्.ईशे । (चातुर्मास्य)

5.2.6

सवितृ.प्रसूततायै ।

5.2.7

अथ.यत्.सरस्वतीम्.यजति ।

5.2.8

वाग्.वै.सरस्वती । (चातुर्मास्य)

5.2.9

वाचम्.एव.तत्.प्रीणाति ।

5.2.10

अथ.यत्.पूषणम्.यजति ।

5.2.11

असौ.वै.पूषा.यो.असौ.तपति । (चातुर्मास्य)

5.2.12

एतम्.एव.त.प्रीणाति ।

5.2.13

अथ.यन्.मरुतः.स्व.तवसो.यजति ।

5.2.14

घोरा.वै.मरुतः.स्व.तवसः । (चातुर्मास्य)

5.2.15

भैषज्यम्.एव.तत्.कुरुते ।

5.2.16

अथ.यद्.वैश्वदेवी.पयस्या ।

5.2.17

एते.वै.सर्वे.देवा.यद्.विश्वे.देवाः । (चातुर्मास्य)

5.2.18

सर्वेषाम्.एव.देवानाम्.प्रीत्यै ।

5.2.19

अथ.यद्.द्यावा.पृथिवीय.एक.कपालः ।

5.2.20

प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । (चातुर्मास्य)

5.2.21

अथ.यत्.प्रथमजम्.गाम्.ददाति ।

5.2.22

प्रथम.कर्म.ह्य्.एतत् ।

5.2.23

अथ.यत्.पुरस्ताद्.वा.उपरिष्टाद्.वा.शम्योर्.वाकस्यान्.आवाहितान्.वाजिनो.यजति । (चातुर्मास्य)

5.2.24

देव.अश्वा.वै.वाजिनः ।

5.2.25

तान्.एव.तत्.प्रीणाति ।

5.2.26

अत्र.देवाः.स.अश्वाः.प्रीता.भवन्ति । (चातुर्मास्य)

5.2.27

अथो.ऋतवो.वै.वाजिनः ।

5.2.28

ऋतून्.एव.तत्.प्रीणाति ।

5.2.29

अथ.यत्.परस्तात्.पौर्णमासेन.यजते ।

5.2.30

तथा.ह.अस्य.पूर्व.पक्षे.वैश्वदेवेन.इष्टम्.भवति । (चातुर्मास्य)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc