भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 5.1

5.1.1

अथ.अतश्.चातुर्मास्यानाम् ।

5.1.2

चातुर्मास्यानि.प्रयुञ्जानः.फाल्गुन्याम्.पौर्णमास्याम्.प्रयुङ्क्ते । (चातुर्मास्य)

5.1.3

मुखम्.वा.एतत्.संवत्सरस्य.यत्.फाल्गुनी.पौर्णमासी ।

5.1.4

मुखम्.उत्तरे.फल्गू । (चातुर्मास्य)

5.1.5

पुच्छम्.पूर्वे ।

5.1.6

तद्.यथा.प्रवृत्तस्य.अन्तौ.समेतौ.स्याताम् ।

5.1.7

एवम्.एव.एतौ.संवत्सरस्य.अन्तौ.समेतौ । (चातुर्मास्य)

5.1.8

तद्.यत्.फाल्गुन्याम्.पौर्णमास्याम्.वैश्वदेवेन.यजेत ।

5.1.9

मुखत.एव.तस्.संवत्सरम्.प्रीणाति । (चातुर्मास्य)

5.1.10

अथो.भैषज्य.यज्ञा.वा.एते.यच्.चातुर्मास्यानि ।

5.1.11

तस्माद्.ऋतु.संधिषु.प्रयुज्यन्ते । (चातुर्मास्य)

5.1.12

ऋतु.संधिषु.हि.व्याधिर्.जायते ।

5.1.13

तानि.वा.अष्टौ.हवींषि.भवन्ति । (चातुर्मास्य)

5.1.14

अष्टौ.वै.चतसृणाम्.पौर्णमासीनाम्.हवींषि.भवन्ति ।

5.1.15

चतसृणाम्.वै.पौर्णमासीनाम्.वैश्वदेवम्.समासः । (चातुर्मास्य)

5.1.16

अथ.यद्.अग्निर्.मथ्यते ।

5.1.17

प्रजापतिर्.वै.वैश्वदेवम् ।

5.1.18

तस्माद्.एतम्.दैवम्.गर्भम्.प्रजनयन्ति । (चातुर्मास्य)

5.1.19

अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.1.20

अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.वाजिनम्.नवमम् ।

5.1.21

तन्.नक्षत्रियाम्.विराजम्.आप्नोति । (चातुर्मास्य)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc