भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.10

4.10.1

अथ.य.प्रथजम्.गाम्.ददाति ।

4.10.2

पथम.कर्म.ह्य्.एतत् ।

4.10.3

यद्य्.एतस्यै.ग्लायात् । (विकृति.इष्टयह्)

4.10.4

पौर्णमासम्.वा.अमावास्यम्.वा.हविष्.कुर्वीत.नवानाम्.उभयस्य.आप्त्यै । (विकृति.इष्टयह्)

4.10.5

अपि.वा.पौर्णमासे.वा.अमावास्ये.वा.हवींष्य्.अनुवर्तयेद्.देवतानाम्.अपरिहाणाय । (विकृति.इष्टयह्)

4.10.6

अपि.वा.यवाग्.वा.एव.सायम्.प्रातर्.अग्निहोत्रम्.जुहुयान्.नवानाम्.उभयस्य.आप्त्यै । (विकृति.इष्टयह्)

4.10.7

अपि.वा.स्थाली.पाकम्.एव.गार्हपत्ये.श्रपयित्वा.नवानाम्.एताभ्य.आग्रयण.देवताभ्य.आहवनीये.जुहुयात्.स्विष्टकृच्.चतुर्थीभ्यो.अमुष्यै.स्वाहा.अमुष्यै.स्वाहा.इति.देवतानाम्.अपरिहाणाय । (विकृति.इष्टयह्)

4.10.8

अपि.वा.अग्निहोत्रीम्.एव.नवान्.आदयित्वा.तस्यै.दुग्धेन.सायम्.प्रातर्.अग्निहोत्रम्.जुहुयाद्.उभयस्य.आप्त्यै । (विकृति.इष्टयह्)

4.10.9

एत.एतावन्तः.पाताः ।

4.10.10

तेषाम्.येन.कामयेत.तेन.यजेत । (विकृति.इष्टयह्)

4.10.11

त्रिहविस्.तु.स्थिता ।

4.10.12

त्रयो.वा.इमे.लोकाः ।

4.10.13

इमान्.एव.तल्.लोकान्.आप्नोति.इमान्.एव.तल्.लोकान्.आप्नोति । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc