भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.9

4.9.1

अथ.वसन्त.आगते.पक्वेषु.वेणु.यवेषु ।

4.9.2

वेणु.यवान्.उद्धर्तव.आह ।

4.9.3

तस्या.एतद्.एव.पर्व.एतत्.तन्त्रम्.एषा.देवता.एषा.दक्षिणा.एतद्.ब्राह्मणम्। (विकृति.इष्टयह्)

4.9.4

ताम्.ह.एक.आग्नेयीम्.वा.वारुणीम्.वा.प्राजापत्याम्.वा.कुर्वन्त्य्.एतत्.तन्त्राम्.एव.एतद्.ब्राह्मणाम् । (विकृति.इष्टयह्)

4.9.5

अथ.व्रीहि.सस्ये.वा.यव.सस्ये.वा.आगते ।

4.9.6

आग्रयणीयान्.उद्धर्तव.आह । (विकृति.इष्टयह्)

4.9.7

तस्या.एतद्.एव.पर्व.एतत्.तन्त्रम् ।

4.9.8

अथ.यद्.ऐन्द्राग्नो.द्वादश.कपालः । (विकृति.इष्टयह्)

4.9.9

इन्द्राग्नी.वै.देवानाम्.मुखम् ।

4.9.10

मुखत.एव.तद्.देवान्.प्रीणाति । (विकृति.इष्टयह्)

4.9.11

अथ.यद्.वैश्वदेवश्.चरुः ।

4.9.12

एते.वै.सर्वे.देवा.यद्.विश्वे.देवाः ।

4.9.13

सर्वेषाम्.एव.देवानाम्.प्रीत्यै । (विकृति.इष्टयह्)

4.9.14

अथ.यद्.द्यावा.पृथिवीय.एक.कपालः ।

4.9.15

द्यावा.पृथिवी.वै.सस्यस्य.साधयित्र्यै । (विकृति.इष्टयह्)

4.9.16

प्रतिष्ठा.पृथिवी.ओद्म्ना.असाव्.अनुवेद.(?) ।

4.9.17

तद्.यद्.एता.देवता.यजति ।

4.9.18

एताभिर्.देवताभिः.शान्तम्.अन्नम्.अत्स्यामि.इति । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc