भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.8

4.8.1

अथ.अत.आग्रयणस्य ।

4.8.2

आग्रयणेन.अन्न.अद्य.कामो.यजेत.वर्षास्.आगते.श्यामाक.सस्ये । (विकृति.इष्टयह्)

4.8.3

श्यामाकान्.उद्धर्तव.आह ।

4.8.4

सा.या.तस्मिन्.काले.अमावास्या.उपसम्पद्येत । (विकृति.इष्टयह्)

4.8.5

तया.इष्ट्वा.अथ.एतया.इष्ट्या.यजेत ।

4.8.6

यदि.पौरुणमासी ।

4.8.7

एतया.इष्ट्वा.अथ.पौर्णमासेन.यजेत । (विकृति.इष्टयह्)

4.8.8

यद्य्.उ.नक्षत्रम्.उपेप्सेत् ।

4.8.9

पूर्व.पक्षे.नक्षत्रम्.उदीक्ष्य.यस्मिन्.कल्याणे.नक्षत्रे.कामयेत.तस्मिन्.यजेत । (विकृति.इष्टयह्)

4.8.10

तस्यै.सप्तदश.सामिधेन्यः.सद्वान्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (विकृति.इष्टयह्)

4.8.11

सौम्यश्.चरुः ।

4.8.12

सोमो.वै.राजा.ओषधीनाम् ।

4.8.13

तद्.एनम्.स्वया.दिशा.प्रीणाति । (विकृति.इष्टयह्)

4.8.14

अथ.यन्.मधु.पर्कम्.ददाति ।

4.8.15

एष.ह्य्.आरण्यानाम्.रसः । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc