भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.5

4.5.1

अथ.अत.इडादधस्य ।

4.5.2

इडादधेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (विकृति.इष्टयह्)

4.5.3

स.एष.पशु.कामस्य.अन्न.अद्य.कामस्य.यज्ञः ।

4.5.4

तेन.पशु.कामो.अन्न.अद्य.कामो.यजेत । (विकृति.इष्टयह्)

4.5.5

तत्र.तथा.एव.व्रतानि.चरति ।

4.5.6

दाक्षायण.यज्ञस्य.हि.समासः ।

4.5.7

अथ.अतः.सार्वसेनि.यज्ञस्य । (विकृति.इष्टयह्)

4.5.8

सार्वसेनि.यज्ञेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (विकृति.इष्टयह्)

4.5.9

स.एष.तु.स्तूर्षमाणस्य.यज्ञः ।

4.5.10

स.य.इच्छेद्.द्विषन्तम्.भ्रातृव्यम्.स्तृण्वीय.इति । (विकृति.इष्टयह्)

4.5.11

स.एतेन.यजने.स्तृणुते.ह ।

4.5.12

अथ.अतः.शौनक.यज्ञस्य ।

4.5.13

शौनक.यज्ञेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (विकृति.इष्टयह्)

4.5.14

स.एष.प्रजाति.कामस्य.यज्ञः ।

4.5.15

तेन.प्रजाति.कामो.यजेत ।

4.5.16

तद्.यद्.अध्वर्युर्.हवींषि.प्रजनयति.तत्.प्रजात्यै.रूपम् । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc