कौषीतकिब्राह्मण · अध्याय 4.6
अथ.अतो.वसिष्ठ.यज्ञस्य ।
वसिष्ठ.यज्ञेन.इष्यन्.फाल्गुन्याम्.अमावास्यायाम्.प्रयुङ्क्ते । (विकृति.इष्टयह्)
ब्रह्म.वै.पौर्णमासी ।
क्षत्रम्.अमावास्या ।
क्षत्रम्.इव.एष.यज्ञः । (विकृति.इष्टयह्)
क्षत्रेण.शत्रून्त्.सहा.इति ।
वसिष्ठो.अकामयत.हत.पुत्रः.प्रजायेन.प्रजया.पशुभिर्.अभि.सौदासान्.भवेयम्.इति । (विकृति.इष्टयह्)
स.एतम्.यज्ञ.क्रतुम्.अपश्यद्.वसिष्ठ.यज्ञम् ।
तेन.इष्ट्वा.प्राजायत.प्रजया.पशुभिर्.अभि.सौदासान्.अभवत् । (विकृति.इष्टयह्)
तथो.एव.एतद्.यजमानो.यद्.वसिष्ठ.यज्ञेन.यजने ।
प्रजायते.प्रजया.पशुभिर्.अभि.द्विषतो.भ्रातृव्यान्.भवति । (विकृति.इष्टयह्)
अथ.अतः.साकम्.प्रस्थाय्यस्य ।
साकम्.प्रस्थाय्येन.इष्यन्न्.एतस्याम्.एव.अमावास्यायाम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (विकृति.इष्टयह्)
स.एष.श्रैष्ठ्य.कामस्य.पौरुष.कामस्य.यज्ञः ।
तेन.श्रैष्ठ्य.कामः.पौरुष.कामो.यजते । (विकृति.इष्टयह्)
तद्.यत्.साकम्.सम्प्रतिष्ठन्ते ।
साकम्.सम्प्रयजन्ते ।
साकम्.सम्भक्षयन्ते ।
तस्मात्.साकम्.प्रस्थाय्यः । (विकृति.इष्टयह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0