कौषीतकिब्राह्मण · अध्याय 4.4
अथ.अथो.दाक्षायण.यज्ञस्य ।
दाक्षायण.यज्ञेन.इष्यन्.फाल्गुन्याम्.पौर्णमास्याम्.प्रयुङ्क्ते । (विकृति.इष्टयह्)
मुखम्.वा.एतत्.संवत्सरस्य.यत्.फाल्गुनी.पौर्णमासी ।
तस्मात्.तस्याम्.अदीक्षित.अयनानि.प्रयुज्यन्ते । (विकृति.इष्टयह्)
अथो.दक्षो.ह.वै.पार्वतिर्.एतेन.यज्ञेन.इष्ट्वा.सर्वान्.कामान्.आप ।
तद्.यद्.दाक्षायण.यज्ञेन.यजते । (विकृति.इष्टयह्)
सर्वेषाम्.एव.कामानाम्.आप्त्यै ।
नाशने.कामम्.आपयीत ।
सोमम्.राजानम्.चन्द्रमसम्.भक्षयानि.इति.मनसा.ध्यायन्न्.अश्नीयात् । (विकृति.इष्टयह्)
तद्.असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमाः ।
तम्.एतम्.अपर.पर्क्षम्.देवा.अभिषुण्वन्ति । (विकृति.इष्टयह्)
तद्.यद्.अपर.पक्षम्.दाक्षायण.यज्ञस्य.व्रतानि.चरन्ति ।
देवानाम्.अपि.सोम.पीथो.असानि.इति । (विकृति.इष्टयह्)
.अथ.यद्.उपवसथे.अग्नीषोमीयम्.एकादश.कपालम्.पुरोडाशम्.निर्वपति ।
य.एव.असौ.सोमस्य.उपवसथे.अग्नीषोमीयः । (विकृति.इष्टयह्)
तम्.एव.अस्य.तेन.आप्नोति ।
अथ.यत्.प्रातर्.आमावास्येन.यजते ।
ऐन्द्रम्.वै.सुत्यम्.अहः । (विकृति.इष्टयह्)
तत्.सुत्यम्.अहर्.आप्नोति ।
अथ.यद्.अमावास्याया.उपवसथ.ऐन्द्राग्नम्.द्वादश.कपालम्.पुरोडाशम्.निर्वपति । (विकृति.इष्टयह्)
ऐन्द्राग्नम्.वै.सामतस्.तृतीय.सवनम् ।
तत्.तृतीय.सवनम्.आप्नोति । (विकृति.इष्टयह्)
अथ.यन्.मैत्रावरुणी.पयस्या ।
मैत्रावरुणी.वा.अनूबन्ध्या ।
तद्.अनूबन्ध्याम्.आप्नोति । (विकृति.इष्टयह्)
स.एष.सोमो.हविर्.यज्ञान्.अनुप्रविष्टः ।
तस्माद्.अदीक्षितो.दीष्कित.व्रतो.भवति । (विकृति.इष्टयह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0