भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.3

4.3.1

अथ.अतो.अभ्युद्दृष्टायाः ।

4.3.2

एहि.ह.वा.एष.यज्ञ.पथात् ।

4.3.3

यस्य.उपसवथे.पश्चाच्.चन्द्रो.दृश्यते । (विकृति.इष्टयह्)

4.3.4

सो.अग्नये.पथि.कृते.अष्टा.कपालम्.पुरोडाशम्.निर्वपति ।

4.3.5

अग्निर्.वै.पक्षिकृत् । (विकृति.इष्टयह्)

4.3.6

स.एव.एनम्.यज्ञ.पथम्.अपिपातयति ।

4.3.7

इन्द्राय.वृत्रघ्न.एकादश.कपालम् ।

4.3.8

इन्द्रो.वै.वृत्रहा । (विकृति.इष्टयह्)

4.3.9

स.एव.एनम्.पुनर्.यज्ञ.पथम्.अपिपातयति ।

4.3.10

वैश्वानरीयम्.द्वादश.कपालम् । (विकृति.इष्टयह्)

4.3.11

असौ.वै.वैश्वानरो.यो.असौ.तपति ।

4.3.12

एष.एव.एनम्.पुनर्.यज्ञ.पथम्.अपिपातयति ।

4.3.13

तद्.यद्.एता.देवता.यजति । (विकृति.इष्टयह्)

4.3.14

न.इद्.यज्ञ.पथाद्.अयानि.इति ।

4.3.15

दण्ड.उपानहम्.दक्षिणा ।

4.3.16

तद्.अभयस्य.रूपम् । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc