भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 4.2

4.2.1

अथ.अतो.अभ्युदितायाः ।

4.2.2

एहि.ह.वा.एष.यज.पथात् ।

4.2.3

यस्य.उपवसथे.पुरस्ताच्.चन्द्रो.दृश्यते । (विकृति.इष्टयह्)

4.2.4

सो.अग्नये.दात्रे.अष्टा.कपालम्.पुरोडाशम्.निर्वपति ।

4.2.5

अग्निर्.वै.दाता । (विकृति.इष्टयह्)

4.2.6

स.एव.अस्मै.यज्ञम्.ददाति ।

4.2.7

इन्द्राय.प्रदात्रे.सायम्.दोहितम्.दधि ।

4.2.8

इन्द्रो.वै.प्रदाता । (विकृति.इष्टयह्)

4.2.9

स.एव.अस्मै.यज्ञम्.प्रयच्छति ।

4.2.10

विष्णवे.शिपि.विष्टाय.प्रातर्.दोहिते.पयसि.चरुम् । (विकृति.इष्टयह्)

4.2.11

यज्ञो.वै.विष्णुः ।

4.2.12

स.एव.अस्मै.यज्ञम्.ददाति ।

4.2.13

तद्.यद्.एता.देवता.याति । (विकृति.इष्टयह्)

4.2.14

न.इद्.यज्ञ.पथाद्.अयानि.इति ।

4.2.15

तिसृधन्वम्.दक्षिणा ।

4.2.16

तत्.स्वस्त्ययनस्य.रूपम् । (विकृति.इष्टयह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc