कौषीतकिब्राह्मण · अध्याय 4.1
अनुनिर्वाप्यया.वै.देवा.असुरान्.अपाघ्रत ।
तथो.एव.एतद्.यजमानो.अनुनिर्वाप्यया.एव.द्विषतो.भ्रातृव्यान्.अपहते । (विकृति.इष्टयह्)
स.वा.इन्द्राय.विमृध.एकादश.कपालम्.पुलोडाशम्.निर्वपति ।
इन्द्रो.वै.मृधाम्.विहन्ता । (विकृति.इष्टयह्)
स.एव.अस्य.मृधो.विहन्ति ।
अथो.आमावास्यम्.एव.एतत्.प्रत्याहरति.यत्.पौर्णमास्याम्.इन्द्रम्.यजति । (विकृति.इष्टयह्)
अत्र.संस्थित.दर्श.पूर्ण.मासौ.यजमानो.यद्य्.अपर.पक्षे.भङ्गम्.नीयात् । (विकृति.इष्टयह्)
न.अस्य.यज्ञ.विकर्षः.स्यात् ।
अथ.यद्.अमावास्यायाम्.अदितिम्.यजति ।
यज्ञस्य.एव.सभारतायै ।
सा.सम्याज्यातो.विमृद्वती.भवति । (विकृति.इष्टयह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0