भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 3.12

3.12.1

सोमम्.प्रथमम्.यजति ।

3.12.2

रेतस्.तत्.सिञ्चति ।

3.12.3

त्वष्टारम्.द्वितीयम् ।

3.12.4

त्वष्टा.वै.रेतः.षिक्तम्.विकरोति ।

3.12.5

ततः.पत्न्यः । (द्प्म्)

3.12.6

पत्नी.सम्याजा.ह्य्.एते ।

3.12.7

अथ.यद्.अग्निम्.गृहपतिम्.अन्ततो.यजति ।

3.12.8

एतत्.स्विष्टकृतो.वै.पत्न्यः । (द्प्म्)

3.12.9

तस्माद्.एनम्.अन्ततो.यजति ।

3.12.10

अथ.य.अप.उपस्पृशति.तस्य.उक्तम्.ब्राह्मणम् । (द्प्म्)

3.12.11

अथ.यद्.ऋचम्.जपति.स्वस्त्ययनम्.एव.तत्.कुरुते । (द्प्म्)

3.12.12

अथ.यद्.इलाम्.उपह्वयते.यन्.मार्जयते.यत्.शम्योर्.वाकम्.आह.तस्य.उक्तम्.ब्राह्मणम् । (द्प्म्)

3.12.13

अथ.यद्.वेदे.पत्नीम्.वाचयति ।

3.12.14

वृषा.वै.वेदः ।

3.12.15

योषा.पत्नी । (द्प्म्)

3.12.16

मिथुनम्.एव.तत्.पत्नीषु.दधाति ।

3.12.17

तस्मात्.पत्नी.वेद.तृणान्य्.अन्तर.ऊरू.कुरुते । (द्प्म्)

3.12.18

अथ.यद्.वेदम्.स्तृणाति ।

3.12.19

तेन.ह.अस्य.दर्श.पूर्ण.मासौ.संततौ.भवतः । (द्प्म्)

3.12.20

अथो.एतेन.एव.अस्य.अग्निहोत्रम्.स्तीर्ण.बर्हिर्.भवति ।

3.12.21

अथ.यद्.वेद.अतिशेषम्.उपतिष्ठते । (द्प्म्)

3.12.22

आशिषम्.एव.तद्.वदते ।

3.12.23

अथ.यद्.आहवनीयम्.उपतिष्ठते ।

3.12.24

प्रीत्वा.एव.तद्.देवेष्व्.अन्ततो.अर्थम्.वदते ।

3.12.25

अथ.यद्.अप.उपस्पृशति ।

3.12.26

शान्तिर्.वै.भेषजम्.आपः ।

3.12.27

शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते.अन्ततो.यज्ञे.क्रियते । (द्प्म्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc