कौषीतकिब्राह्मण · अध्याय 30.8
पञ्च.पञ्च.सूक्तानि.तृतीय.सवने.मैत्रावरुणः.शंसति.सर्वेषु.छन्दोमेषु ।
पशवो.वै.छन्दोमाः ।
पाङ्क्ताः.पशवः ।
पशूनाम्.एव.आप्त्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
चत्वारि.सूक्तानि.ब्राह्मणाच्छंसी.शंसति.प्रथमे.छन्दोमे ।
पशवो.वै.छन्दोमाः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।
पञ्च.पञ्च.सूक्तान्य्.उत्तरयोश्.छन्दोमयोः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
पशवो.वै.छन्दोमाः ।
पाङ्क्ताः.पशवः ।
पशूनाम्.एव.आप्त्यै ।
पञ्च.सूक्तान्य्.अच्छावाकः.शंसति.प्रथमे.छन्दोमे । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
पशवो.वै.छन्दोमाः ।
पाङ्क्ताः.ऋतवः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
चतुर्.आहावानि.शस्त्राणि ।
पशवो.वा.उक्थानि ।
चतुष्टया.वै.पशवः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।
षष्ठ.एव.अहन्.मैत्रावरुणस्य.पञ्च.आहावम्.भवति ।
पशवो.वा.उक्थानि । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
पाङ्क्ताः.पशवः ।
पशूनाम्.एव.आप्त्यै ।
ऐकाहिका.उक्थ्य.याज्याः ।
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव ।
अनुवषट्.क्र्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (होत्रक.शस्त्राणि(तृतीय.सवनम्))
आहुतीनाम्.प्रतिष्ठित्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0