भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 30.9

30.9.1

पञ्च.छन्दांसि.रात्रौ.शंसन्ति ।

30.9.2

अनुष्टुभम्.गायत्रीम्.उष्णिहम्.त्रिष्टुभम्.जगतीम्.इति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.3

एतानि.वै.रात्रिच्.छन्दसानि ।

30.9.4

पञ्च.आहावा.रात्रिः ।

30.9.5

वाजपेयस्य.च.अतिरिक्त.उक्थम् ।

30.9.6

उक्थस्य.अतिग्रहो.रात्रिः ।

30.9.7

छन्दसे.छन्दस.एव.तद्.आह्वयन्त.इति.ह.स्म.आह.कौषीतकिर्.अजामितायै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.8

अथ.यत्.तिरो.अह्न्यवतीम्.त्रिष्टुभम्.आश्विन.इक्थ.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.9

तिरो.अह्न्यवान्.प्रैषः ।

30.9.10

तिरो.अह्न्या.हि.सोमा.भवन्ति ।

30.9.11

अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् ।

30.9.12

बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.13

चतुर्.आहावान्य्.अप्तोर्यामस्य.अतिरिक्त.उक्थानि ।

30.9.14

पशवो.वा.उक्थानि ।

30.9.15

चतुष्टया.वै.पशवः ।

30.9.16

अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।

30.9.17

क्षैत्रपत्यः.परिधानीयाः.कुर्वते । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.18

इयम्.वै.क्षेत्रम्.पृथिवी ।

30.9.19

अस्याम्.अदीनायाम्.अन्ततः.प्रतिष्ठास्याम.इति ।

30.9.20

अस्याम्.एव.तद्.अदीनायाम्.अन्ततः.प्रतितिष्ठन्ति ।

30.9.21

अथ.यत्.तिरो.अह्न्यवत्यस्.त्रिष्टुभो.याज्या.भवन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.22

तिरो.अह्न्या.हि.सोमा.भवन्ति ।

30.9.23

अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् ।

30.9.24

बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति ।

30.9.25

अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.26

आहुतीनाम्.प्रतिष्ठित्यई ।

30.9.27

अथ.हारियोजनेन.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.28

त्रिष्टुभम्.हारियोजनस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.9.29

अथ.यद्.अतिप्रैषस्य.पुरोनुवाक्याम्.अन्वाह ।

30.9.30

अवीर्यो.ह.वा.उ.स.प्रैषो.यो.अपुरोनुवाख्यः ।

30.9.31

अथो.द्विदेवत्येषु.वै.पुरोनुवाक्या.भवन्ति ।

30.9.32

सर्वेषु.च.प्रस्थितेषु ।

30.9.33

तस्माद्.अस्य.पुरोनुवाक्याम्.अन्वाह ।

30.9.34

अथ.यद्.अतिप्रैषम्.आह ।

30.9.35

परम्.एव.एतद्.अहर्.अभिवदति ।

30.9.36

परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः.परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc