कौषीतकिब्राह्मण · अध्याय 30.7
उष्णिक्ष्व्.अच्छावाकाय.प्रणयन्ति.प्रथमे.अहन् ।
तेनो.स.ब्राह्मणाच्छंसिनो.वशम्.एति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
ऋतुर्.जनित्रीयम्.त्रयोदशर्चम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
द्विस्.तावद्.यावद्.ब्राह्मणाच्छंसिन.एका.च.उप ।
भारद्वाजो.अहर्.अहः.पर्यासो.भवति ।
भरद्वाजो.ह.एतद्.अच्छावाकीयायै.तृतीय.सवनम्.ददर्श । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तस्माद्.भारद्वाजो.अहर्.अहः.पर्यासो.भवति ।
वैष्णवे.विपर्यस्यत्य्.अच्छावाकः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
पर्यासाव्.इतरौ ।
द्विपर्यासुअ.मैत्रावरुणश्.च.ब्राह्मणाच्छंसी.च । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
एक.पर्यासो.अच्छावाकः ।
तद्.यद्.अच्युत.पर्यासो.अच्छावाकः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
प्रतिष्ठा.वा.अच्छावाकः.प्रतिष्ठित्या.एव ।
षट्त्रिंशतम्.मैत्रावरुणश्.चतुर्विंशे.शंसति ।
चत्वारिंशतम्.ब्राह्मणाच्छंसी । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
चतुश्.चत्वारिंशतम्.अच्छावाकः ।
तद्.विंशति.शतम् ।
विंशति.शतम्.वा.ऋतोर्.अहानि । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तद्.ऋतुम्.आप्नुवन्ति ।
ऋतुना.संवत्सरम् ।
ये.च.संवत्सरे.कामाः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0