भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 30.6

30.6.1

तम्.अच्छावाकाय.प्रयच्छति ।

30.6.2

तम्.स.एवयामरुता.चारयति.जातम् ।

30.6.3

न्यूङ्खयति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.4

न्यूङ्ख.मानक.इव.वै.प्रथमम्.चिचर्षंश्.चरति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.5

तद्.एनम्.अमृताच्.छन्दसो.अमृतत्वाय.प्रजनयन्ति ।

30.6.6

ते.अमृतत्वम्.आप्नुवन्ति.य.षष्ठम्.अहर्.उपयन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.7

स्तोत्रिया.अनुरूपौ.शस्त्वा.वालखिल्याः.शंसति ।

30.6.8

आत्मा.वै.स्तोत्रिया.अनुरूपौ । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.9

प्राणा.वालखिल्याः ।

30.6.10

अनन्तर्हिता.उ.ह.इएम्.आत्मनः.प्राणाः । (होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.11

तद्.आहुः.कस्माद्.वालखिल्या.इति ।

30.6.12

यद्.वा.उर्वरयोर्.असम्भिन्नम्.भवति ।

30.6.13

खिल.इति.वै.तम्.आचक्षते ।

30.6.14

वाल.मात्रा.उ.हि.इमे.प्राणा.असम्भिन्नाः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.15

तद्.यद्.असम्भिनाः ।

30.6.16

तस्माद्.वालखिल्याः ।

30.6.17

तार्क्ष्ये.दूरोहणम्.रोहति.इति.तद्.उक्तम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.18

गायत्रीषु.ब्राह्मणाच्छंसिने.प्रणयन्ति.द्वितीये.अहन् ।

30.6.19

तेनो.स.मैत्रावरुणस्य.वशम्.एति ।

30.6.20

प्र.मंहिष्ठाय.बृहते.बृहद्.रय.इति.जागतम्.षडृचम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.6.21

द्विस्.तावद्.यावन्.मैत्रावरुणस्य ।

30.6.22

कार्ष्णो.अहर्.अहः.पर्यासो.भवति ।

30.6.23

कृष्णो.ह.एतद्.आङ्गिरसो.ब्राह्मणाच्छंसीयायै.तृतीय.सवनम्.ददर्श ।

30.6.24

तस्माद्.कार्ष्णो.अहर्.अहः.पर्यासो.भवति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc