कौषीतकिब्राह्मण · अध्याय 30.5
आदित्य.आङ्गिरसीर्.उपसंशंसति ।
आदित्याश्.च.ह.वा.अङ्गिरसश्.च.अस्पर्धन्त ।
वयम्.पूर्वे.स्वर्गम्.लोकम्.एष्याम.इत्य्.आदित्याः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
वयम्.इत्य्.अङ्गिरसः ।
ते.अङ्गिरस.आदित्यान्.प्रजिघ्युः ।
श्वः.सुत्या.नो.याजयत.न.इति ।
तेषाम्.ह.अग्निर्.दूत.आस ।
त.आदित्या.ऊचुः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
अथ.अस्माकम्.अद्य.सुत्या ।
तेषाम्.नस्.त्वम्.एव.होता.असि ।
बृहस्पतिर्.ब्रह्माय.अस्य.उद्गाता.घोर.आङ्गिरसो.अध्वर्युर्.इति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तान्.न.प्रत्युआचचक्षिरे ।
तम्.एताभिः.शिशिक्षुः ।
तद्.एता.अभिवदन्ति ।
ते.अश्वम्.श्वेतम्.दक्षिणाम्.निण्युर्.एतम्.एव.य.एष.तपति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तत.उ.ह.आदित्याः.स्वर्.ईयुः ।
स्वर्.एति.य.एवम्.वेद ।
दिशाम्.क्लृप्तीः.शंसति ।
दिशो.ह.अस्मै.कल्पन्ते ।
जन.कल्पाः.शंसति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
जना.ह.अस्मै.कल्पन्ते ।
प्रवल्हिकाः.प्रतीराधान्.अतिवादाम्.आहनस्याः.सर्वा.वाचो.वदति ।
तस्मात्.पुरुषः.सर्वा.वाचो.वदति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))ण्ण्ण्
एकैकाम्.इतरे.पशवः ।
ता.वा.अष्टौ.भवन्ति ।
एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तथो.एव.एतद्.यजमाना.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुवते ।
कपृन्नरः.कपृथम्.उद्दधातन.यद्द्.ह.प्राचीर्.अजगन्ता.इति.द्वे.एक.पातिन्यौ । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
ता.दश.संपद्यन्ते ।
दश.दशिनी.विराट् ।
श्रीर्.विराड्.अन्न.अद्यम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।
दाधिक्रीम्.शंसति ।
वाग्.वै.दाधिक्री ।
वाचम्.एव.अस्मिंस्.तद्.दधाति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
पावमानम्.शंसति ।
पवित्रम्.वै.पावमान्यः ।
पुनात्य्.एव.एनत्.तत् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0