भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 30.4

30.4.1

तम्.ब्राह्मणाच्छंसिने.प्रयच्छति ।

30.4.2

तम्.स.सुकीर्तिना.योनिना.प्रगिगृह्णाति.जातम् ।

30.4.3

अथ.एतम्.वृषाकपिम्.पङ्क्ति.शंसम्.शंसति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.3

पञ्चपदा.पङ्क्तिः ।

30.4.5

पाङ्क्तो.वै.यज्ञो.यज्ञस्य.अवाप्त्यै ।

30.4.6

न्यूङ्खयति ।

30.4.7

अन्नम्.वै.न्यूङ्खः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.8

जात.एव.अस्मिंस्.तद्.अन्न.अद्यम्.प्रतिदधाति ।

30.4.9

अथ.एतत्.कुन्तापम्.यथा.छन्दसम्.शंसति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.10

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै ।

30.4.11

नाराशंसी.रैभीः.कारव्या.इन्द्र.गाथा.भूतेच्छदः.पारिक्षितीर्.एतश.प्रलापम्.इति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.12

एतशो.ह.वै.मुनिर्.यज्ञस्य.आयुर्.ददर्श ।

30.4.13

स.ह.पुत्रान्.उवाच ।

30.4.13

पुत्रका.यज्ञस्य.आयुर्.अदर्शम्.तद्.अभिलप्ष्यामि । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.15

मामाम्.दृप्तम्.मन्ध्वम्.इति ।

30.4.16

ते.ह.तथा.इत्य्.ऊचुः ।

30.4.17

तद्द्.ह.अभिललाप ।

30.4.18

तस्य.ह.ज्येष्ठः.पुत्रो.अभिसृप्य.मुखम्.अपिजग्राह । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.19

अदृपद्.वै.नः.पिता.इति ।

30.4.20

तम्.ह.उवाच ।

30.4.21

अपनश्य.धिक्.त्वा.जाल्मास्तु.(.जाल्म.अस्तु.?) ।

30.4.22

पापिष्ठाम्.ते.प्रजाम्.करिष्यामि । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.23

यद्.वै.मे.जाल्म.मुखम्.न.अप्य्.अग्रहीष्यः ।

30.4.23

शत.आयुषम्.गाम्.अकरिष्यम्.सहस्र.आयुषम्.पुरुषम्.इति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.4.25

तस्माद्.ऐतशायना.आजानेयाः.सन्तो.भृगूणाम्.पापिष्ठाः.पित्रा.अभिशप्ताः.स्वया.देवतया.स्वेन.प्रजापतिना । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc