कौषीतकिब्राह्मण · अध्याय 30.3
द्विपदासु.षष्ठे.अहन्.प्रणयन्ति.सर्वेषाम् ।
द्वैपदम्.हि.षष्ठम्.अहः ।
अथो.गूर्दम्.भद्रम्.उद्वंश.पुत्रम्.इति.सामानि.कुर्वन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
अथो.द्विपदा.सहचराणि.वै.शिल्पानि.भवन्ति ।
तस्मात्.शिल्पानि.शस्यन्ते । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
न.इत्.शिल्पेभ्यो.अगाम.इति ।
नाभानेदिष्ठेन.अत्र.होता.रेतः.सिचति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तन्.मैत्रावरुणाअय.प्रयच्छति ।
तत्.स.वालखिल्याभिर्.विकरोति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
अथ.एता.वालखिल्या.विहृताः.शंसति ।
पच्छः.प्र्थमे.सूक्ते.विहरति ।
पर्वश.एव.एनम्.त्त्.सम्भरति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
अर्धर्चशो.द्वितीये ।
द्वे.वै.पुरुषः.कपले ।
ते.एव.तत्.संदधाति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
ऋचम्.ऋचम्.तृतीये ।
कृत्स्नम्.एव.एनम्.तत्.सम्भरति ।
विपर्यस्येन्.नाराशंसे । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
तस्माद्.विपर्यस्ता.गर्भा.जायन्ते ।
तार्क्ष्ये.दूरोहणम्.रोहति ।
वायुर्.वै.तार्क्ष्यः ।
प्राणो.वै.वायुः ।
प्राणम्.एव.तद्.यजमाना.रोहन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0