भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 30.2

30.2.1

तान्य्.अच्युतानि.स्युर्.इति.ह.एक.आहुः.सवन.धरणानि.इति.वदन्तः ।

30.2.2

अन्यान्य्.अन्यानि.इति.त्व्.एव.स्थितम् ।

30.2.3

अन्यद्.अन्यद्द्.ह्य्.अहर्.उपयन्ति ।

30.2.4

अथ.वारुणम्.बार्हस्पत्यम्.वैष्णवम्.इति.शंसन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.5

जगती.वा.एतेषाम्.छन्दस्.त्रिष्टुब्.इन्द्रस्य ।

30.2.6

तद्.यत्.छन्दसी.विपरीते.द्विदेवत्यायै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.7

ऐन्द्रावरुणम्.ऐन्द्रा.बार्हस्पत्यम्.ऐन्द्रावैष्णवम्.इति.शंसन्ति ।

30.2.8

ग्रहान्.एव.एतैर्.अनुशंसन्ति ।

30.2.9

एवम्.हि.ग्रहा.गृहीता.भवन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.10

चर्षणी.धृतम्.मघवानम्.उक्थ्यम्.इति.मैत्रावरुणस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.11

वासिष्ठो.अहर्.अहः.पर्यासो.भवति ।

30.2.12

वसिष्ठो.ह.एतन्.मैत्रावरुणीयायै.तृतीय.सवनम्.ददर्श ।

30.2.13

तस्माद्.वासिष्ठो.अहर्.अहः.पर्यासो.भवति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.14

ककुप्सु.मैत्रावरुणाय.प्रणयन्ति.तृतीये.अहन् ।

30.2.15

तेनो.स.ब्राह्मणाच्छंसिनो.वशम्.एति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.16

अथ.चतुर्थे.अहन्त्.स्वे.स्वे.छन्दसि.प्रणयन्ति ।

30.2.17

स्वे.स्व.एव.तच्.छन्दसि.प्रतितिष्ठन्तो.यन्ति ।

30.2.18

गायत्रीषु.मैत्रावरुणाय.प्रणयन्त्य्.उष्णिक्षु.ब्राह्मणाच्छंसिने.अनुष्टुप्स्व्.अच्छावाकाय.उत्तर.उत्तरितायै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.19

तथा.एषाम्.चतुर्भिश्.चतुर्भिर्.अक्षरैश्.छन्दांस्य्.अभ्युद्यन्ति ।

30.2.20

पङ्क्तिषु.मैत्रावरुणाय.प्रणयन्ति.पञ्चमे.अहन् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.2.21

पाङ्क्तम्.हि.पञ्चमम्.अहः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc