भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 30.1

30.1.1

त्रिष्टुभम्.आदित्य.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् ।

30.1.2

अथ.स्तुते.पवमाने.पशुना.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.3

अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् ।

30.1.4

वामदेव्यास्.तृतीय.सवन.उन्नीयमानेभ्यो.अन्वाह ।

30.1.5

वामदेवो.ह.तृतीय.सनव.इन्द्राय.सोमम्.प्रोवाच । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.6

ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.रूपेण ।

30.1.7

ता.वा.ऐन्द्रार्भव्यस्.त्रिष्टुभो.भवन्ति । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.8

इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति ।

30.1.9

ता.वै.नव.अन्वाह । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.10

नव.ह्य्.अत्र.चमसान्.उन्नयन्ति ।

30.1.11

यथा.तु.प्रायणम्.तथा.उदयनम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.12

अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् ।

30.1.13

अन्धस्वत्यो.मद्वत्यः.पीतवत्यो.जगत्यो.याज्याः । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.14

जागतम्.हि.तृतीय.सवनम् ।

30.1.15

अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै ।

30.1.16

आहुतीनाम्.प्रतिष्ठित्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.17

अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् ।

30.1.18

औपासनांस्.तृतीय.सवन.उपास्यन्ति.तेषाम्.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.19

त्रिष्टुभम्.सावित्र.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.20

अथ.यद्.उक्थ.अन्तरेण.अग्नीन्.पत्नीवतस्य.यजति ।

30.1.21

तेन.तौ.होतारम्.अनुसमश्नुवाते । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

30.1.22

ऐन्द्राग्नान्य्.उक्थ्य.उक्थानि.भवन्त्.तेषाम्.उक्तम्.ब्राह्मणम् ।

30.1.23

अथ.एतान्य्.ऐन्द्राणि.जागतानि.सूक्तानि.शंसन्ति ।

30.1.24

पशवो.वै.जगती ।

30.1.25

जागताः.पशवः.पशूनाम्.एव.आप्त्यै । (सोम: होत्रक.शस्त्राणि(तृतीय.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc