कौषीतकिब्राह्मण · अध्याय 29.8
स्तोम.अतिशंसम्.प्रातः.सवनेषु.शस्त्वा.अहीन.सूक्तानि.मध्यंदिनेषु.शंसन्ति.चतुर्विंशे.अभिजित्.विषुवति.बृहत्.पृष्ठे.विश्वजिति.महाव्रतीये.अहन् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अहीनो.ह्य्.एतान्य्.अहानि ।
तद्.यद्.अहीन.सूक्तानि.मध्यंदिनेषु.शंसन्ति ।
पराञ्चीनि.वा.एतान्य्.अहान्य्.अभ्यावर्तीनि । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
न.इत्.पाञ्चो.अगाम.इति ।
अहीन.सूक्तानि.शस्त्वा.ऐकाहिकीभिः.परिदधति ।
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
पाङ्क्ताः.पशवः ।
पशूनाम्.एव.आप्त्यै ।
चत्वारि.चत्वारि.सूक्तानि.ब्राह्मणाच्छंसी.च.अच्छावाकश्.च.शंसतः.सर्वेषु.छन्दोमेषु । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
पशवो.वै.छन्दोमाः ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।
पञ्च.आहावानि.शस्त्राणि ।
पशवो.वा.उक्थानि ।
पाङ्क्ताः.पशवः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
पशूनाम्.एव.आप्त्यै ।
ऐकाहिका.उक्थ्य.याज्याः ।
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव ।
अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0