भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 3.9

3.9.1

अथ.यद्.इडाम्.उपह्वयते ।

3.9.2

सर्वेष्व्.एव.तद्.भूतेषु.उपहवम्.इच्छते ।

3.9.3

अथो.अन्नम्.वा.इडा । (द्प्म्)

3.9.4

अन्नम्.एव.तद्.आत्मन्.धत्ते ।

3.9.4

अथो.पशवो.वा.इडा ।

3.9.6

पशूनाम्.एव.आप्त्यै । (द्प्म्)

3.9.9

तस्याम्.चतुरवान्.इति ।

3.9.11

तथा.पञ्चपदी.भवति ।

3.9.12

पञ्चपदा.पङ्क्तिः । (द्प्म्)

3.9.13

पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै ।

3.9.14

अथ.यज्.जपेन.उत्त्तर.इडाम्.प्राश्नाति ।

3.9.15

ब्रह्म.वै.जपः । (द्प्म्)

3.9.16

ब्रह्मणा.एव.एनाम्.तत्.शमयति ।

3.9.17

अथ.यद्.अध्वर्युर्.बर्हिषदम्.पुरोडाशम्.करोति । (द्प्म्)

3.9.18

पितॄन्.एव.तत्.प्रीणाति ।

3.9.19

अथ.यत्.पवित्रवति.मार्जयन्ते ।

3.9.20

शान्तिर्.वै.भेषजम्.आपः । (द्प्म्)

3.9.21

शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते ।

3.9.22

अथ.यद्.अन्वाहार्यम्.आहरन्ति । (द्प्म्)

3.9.23

एतद्.दक्षिणौ.वै.दर्श.पूर्ण.मासौ ।

3.9.24

तस्माद्.एनम्.आहरन्ति ।

3.9.25

अथ.यत्.समिधम्.अनुमन्त्रयते ।

3.9.26

इध्मस्य.वा.एषा.एक.अतिशिष्टा.भवति ।

3.9.27

तस्माद्.एनाम्.अनुस्तौति । (द्प्म्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc