कौषीतकिब्राह्मण · अध्याय 3.8
अथ.यद्.अमावास्यायाम्.इन्द्राग्नी.यजति ।
प्रतिष्ठे.वा.इन्द्राग्नी.प्रतिष्ठित्या.एव । (द्प्म्)
अथ.यत्.सम्नयन्न्.इन्द्रम्.यजति.महा.इन्द्रम्.वा ।
एतज्.ज्योतिर्.वा.अमावास्या । (द्प्म्)
न.ह्य्.अत्र.चन्द्रो.दृश्यते ।
अथ.यद्.असम्नयन्.पुरोडाशाव्.अन्तरेण.उपांश्व्.आज्यस्य.यजत्य्.अजामितायै । (द्प्म्)
अथ.यत्.सम्नयन्त्.सान्नाय्यस्य.अन्तरेण.उपांश्व्.आज्यस्य.यजति.तस्य.उक्तम्.ब्राह्मणम् । (द्प्म्)
अथ.यद्.अग्निम्.स्विष्टकृतम्.अन्ततो.यजति ।
एष.ह.वै.देवेभ्यो.हविः.प्रयच्छति । (द्प्म्)
यो.वा.अन्नम्.विभजत्य्.अन्ततः.स.भजते ।
अथो.रुद्रो.वै.स्विष्टकृत् । (द्प्म्)
अन्त.भाग्.वा.वा.एषः ।
तस्माद्.एनम्.अन्ततो.यजति ।
तस्य.तच्.छन्दसौ.याज्या.पुरोनुवाक्ये.निगदो.व्यवैति । (द्प्म्)
तेन.अजामि.भवति ।
वषट्.कृत्या.अप.उपस्पृशति ।
शान्तिर्.वै.भेषजम्.आपः । (द्प्म्)
शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते ।
अथ.यत्.प्रदेशिन्याम्.इडायाः.पूर्वम्.अञ्जनम्.अधर.ओष्ठे.निलिम्पते । (द्प्म्)
उत्तरम्.उत्तर.ओष्ठे ।
अयम्.वै.लोको.अधर.ओष्ठः ।
असौ.लोकः.उत्तर.ओष्ठः । (द्प्म्)
अथ.यद्.ओष्ठाव्.अन्तरेण.तद्.इदम्.अन्तरिक्षम् ।
तद्.यद्.प्राश्नाति ।
इमान्.एव.तल्.लोकान्.अनुसंतन्वन्.प्रीणाति । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0