कौषीतकिब्राह्मण · अध्याय 3.10
अथ.यत्.त्रीन्.अनुयाजान्.यजैत् ।
त्र्यो.वा.इमे.लोकाः ।
इमान्.एव.तल्.लोकान्.आप्नोति । (द्प्म्)
अथ.यत्.सर्वम्.उत्तमम्.आह ।
प्रतिष्ठा.वै.स्विष्टकृत्.प्रतिष्ठित्या.एव ।
अथ.यत्.सूक्त.वाकम्.आह । (द्प्म्)
प्रतिष्ठा.वै.सूक्त.वाकः.प्रतिष्ठित्या.एव ।
अथ.यद्.द्यावा.पृथिव्योः.कीर्तयति । (द्प्म्)
प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव ।
अग्निर्.इदम्.हविर्.अजुषत.इति.ह.एक.आहुः । (द्प्म्)
न.तथा.कुर्यात् ।
अभ्यावर्तते.ह.अस्य.देवता.पुनर्.यज्ञ.इति.मन्वाना । (द्प्म्)
पुनर्.मे.हविः.प्रदास्यति.इति ।
सा.यजमानस्य.आशिषो.निवर्तयति.य.इदम्.हविर्.इत्य्.आह । (द्प्म्)
तस्माद्द्.हविर्.अजुषत.हविर्.अजुषत.इत्य्.एव.ब्रूयात् ।
अथो.या.एव.एतद्.देवताः.पुरस्ताद्.यजति । (द्प्म्)
ताभिर्.एव.एतद्.अन्ततः.प्रतितिष्ठति ।
अथ.यत्.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति । (द्प्म्)
एष.ह.वै.दैव.आत्मा.यजमानस्य.यम्.ऋत्विजः.संस्कुर्वन्ति ।
तस्माद्.अस्य.नाम.गृह्णाति ।
अत्र.हि.जायते । (द्प्म्)
उच्चैर्.गृह्णीयाद्.यद्य्.अप्य्.आचार्यः.स्यात् ।
तथा.ह.यजमानो.अप्राच्यावुको.भवति । (द्प्म्)
अथ.पञ्च.आशिषो.वदत.इडायाम्.तिस्रस्.ता.अष्टौ ।
एताभिर्.वै.देवाः.सर्वा.अष्टीर्.अश्नुवत । (द्प्म्)
तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते ।
अथ.बर्हिषि.प्राञ्चम्.अञ्जलिम्.निधाय.जपति.नम.उप.इति । (द्प्म्)
न.हि.नमस्.कारम्.अति.देवाः ।
अथ.यत्.शम्योर्.वाकम्.आह ।
प्रतिष्ठा.वै.शम्योर्.वाकः.प्रतिष्ठित्या.एव । (द्प्म्)
अथो.शम्युर्.ह.वै.बार्हस्पत्यः.सर्वान्.यज्ञान्.शमयाम्.चकार । (द्प्म्)
तस्मात्.शम्योर्.वाकम्.आह ।
अथ.यद्.अप.उपस्पृशति ।
शान्तिर्.वै.भेषजम्.आपः ।
शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0