भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 3.7

3.7.1

बार्हत.राथन्तरम्.वषट्.कुर्यात्.पुरस्ताद्.दीर्घम्.उपरिष्टाद्द्.ह्रस्वम् ।

3.7.2

यद्द्.ह्रस्वम्.तद्.रथन्तरम् । (द्प्म्)

3.7.3

यद्.दीर्घम्.तद्.बृहति ।

3.7.4

अथो.इयम्.वै.रथन्तरम्.असौ.बृहत् ।

3.7.5

अनयोर्.एव.तत्.प्रतितिष्ठति । (द्प्म्)

3.7.7

अथो.एतावान्.वै.वाचो.विकारः ।

3.7.7

सर्वेण.एव.तद्.वाचो.विकारेण.देवेभ्यो.हविः.प्रयच्छति । (द्प्म्)

3.7.8

भूर्.भुव.इति.पुरस्ताद्.ये.यजामहस्य.जपति ।

3.7.9

वषट्.कृत्या.अनुजपत्य्.ओजः.सहः.सह.ओजः.स्वर्.इति । (द्प्म्)

3.7.10

वज्रो.वै.वषट्.कारः ।

3.7.11

तम्.एव.एतत्.शमयति.पुरस्ताच्.च.उपरिष्टाच्.च । (द्प्म्)

3.7.12

अथो.एते.एव.वषट्.कारस्य.प्रीयतमे.तनू.यद्.ओजश्.च.सहश्.च ।

3.7.13

ताभ्याम्.एव.एनम्.शमयति । (द्प्म्)

3.7.14

अथ.यद्.अग्निम्.प्रथमम्.देवतानाम्.यजति ।

3.7.15

अग्निर्.वै.देवानाम्.मुखम् ।

3.7.17

मुखत.एव.तद्.देवान्.प्रीणाति । (द्प्म्)

3.7.17

अथ.यत्.पौर्णमास्याम्.अग्नीषोमौ.यजति ।

3.7.18

अग्नीषोमौ.वा.अन्तर्.वृत्र.आस्ताम् । (द्प्म्)

3.7.19

ताव्.इन्द्रो.न.अशक्नोद्.अभि.वज्रम्.प्रहर्तुम् ।

3.7.22

यद्.उपांशु.यजति.तेन.सोमम्.प्रीणाति ।

3.7.23

यन्.निरुक्तम्.तेन.अग्निम् । (द्प्म्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc