कौषीतकिब्राह्मण · अध्याय 3.6
तौ.वै.जुषाण.याज्यौ.भवतः ।
समान.हविषौ.हि.प्रयाजैर्.भवतः ।
अथो.ब्रह्म.वै.जुषाणः । (द्प्म्)
ब्राह्मणा.एव.तद्.देवेभ्यो.हविः.प्रयच्छति ।
तौ.वै.त्रिबृतौ.भवतः ।
ये.यजामहो.निगदो.वषट्.कारः । (द्प्म्)
चक्षुर्.वा.आज्य.भागौ ।
त्रिवृद्.वै.चक्षुः.शुक्लम्.कृष्णम्.लोहितम्.इति ।
तौ.न.पशौ.न.सोमे.करोति । (द्प्म्)
पशुना.वै.चक्षुष्मान्.अध्वरः ।
न.इच्.चतुर्.अक्षम्.बीभत्सम्.अध्वरम्.करवाणि.इति । (द्प्म्)
अथ.यदावत्योण्(?).हूतवत्यः.पुरोनुवाक्या.भवन्ति ।
प्रवत्यः.प्रत्तवत्यो.याज्याः ।
हूत्वा.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । (द्प्म्)
ता.वै.गायत्री.त्रिष्टुभौ.भवन्ति ।
ब्रह्म.वै.गायत्री ।
क्षत्रम्.त्रिष्टुप् । (द्प्म्)
ब्रह्म.क्षत्राभ्याम्.एव.तद्.देवेभ्यो.हविः.प्रयच्छति ।
ऋग्.अन्ते.वषट्.करोति ।
तथा.ह.अस्य.सर्वा.याज्या.रूपवत्यो.भवन्ति ।
षड्.इति.वषट्.करोति ।
षड्.वा.ऋतवः ।
ऋतून्.एव.तत्.प्रीणाति । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0