कौषीतकिब्राह्मण · अध्याय 3.5
अथ.यद्.उत्तमे.प्रयाजे.देवताः.समावपति ।
प्रयाज.भाज.एव.एनास्.तत्.करोति ।
तद्.यथा.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (द्प्म्)
एवम्.तद्.अग्नेर्.भागे.देवता.भागिनीः.करोति ।
न.अत्र.अग्निम्.होत्राद्.इत्य्.आह ।
पशवो.वै.प्रयाजाः । (द्प्म्)
रुद्रः.स्विष्टकृत् ।
न.इद्.रुद्रेण.यजमानस्य.पशून्.प्रसजानि.इति ।
स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.व्यन्त्व्.इति.ह.एक.आहुः । (द्प्म्)
न.तथा.कुर्यात् ।
अर्धम्.ह.वै.यज्ञस्य.आज्यम्.अर्धम्.हविः ।
स.यद्द्.ह.अन्यतरद्.ब्रूयात् । (द्प्म्)
अर्धम्.ह.वै.यज्ञस्य.समिष्टम्.स्याद्.अर्धम्.असमिष्टम् ।
तस्मात्.स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.हविषो.व्यन्त्व्.इत्य्.एव.ब्रूयात् । (द्प्म्)
अथ.यत्.पौर्णमास्याम्.वार्त्रघ्नाव्.आज्य.भागौ.भवतः ।
पौर्णमासेन.वा.इन्द्रो.वृत्रम्.अहन् । (द्प्म्)
अथ.यद्.अमावास्यायाम्.वृधन्वन्तौ ।
क्षयम्.वा.अत्र.चन्द्रो.गच्छति ।
तम्.एव.एतद्.आप्याययति.तम्.वर्धयति । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0