कौषीतकिब्राह्मण · अध्याय 3.4
तेन.हि.सम्पद्य.महिमानम्.गच्छति ।
यद्.व्.एव.वाचा.अन्वाह.वाचा.यजति ।
तेन.उ.ह.एव.अस्य.स्वो.महिमा.इष्टो.भवति । (द्प्म्)
आ.च.वह.जातवेदः.सुयुजा.च.यज.इत्य्.आह ।
आवह.च.जातवेदो.देवान्त्.सयुजा.च.देवता.यज.इत्य्.एव.एनम्.तद्.आह । (द्प्म्)
अथ.यत्.परस्तात्.सामिधेनीनाम्.जपति ।
वज्रो.वै.सामिधेन्यः ।
तम्.एव.एतत्.शमयति.पुरस्ताच्.च.उपरिष्टाच्.च ।
अथ.यत्.स्रुग्.आदापनेन.स्रुचाव्.आदापयति । (द्प्म्)
देव.रथम्.एव.तद्.युनक्ति.देवेभ्यो.हविः.प्रदास्यन् ।
स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते ।
प्रयाजान्.यजति ।
ऋतवो.वै.प्रयाजाः ।
ऋतून्.एव.तत्.प्रीणाति । (द्प्म्)
ते.वै.पञ्च.भवन्ति ।
तैर्.यत्.किंच.पञ्च.विधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति । (द्प्म्)
समिधो.यजति.वसन्तम्.एव ।
वसन्ते.वा.इडम्.सर्वम्.समिद्यते ।
तनूनपातम्.यजति.गीष्मम्.एव । (द्प्म्)
ग्रीष्मे.हि.तन्वम्.तपति ।
इडो.यजति.वर्षा.एव ।
वर्षाभिर्.हि.ईडितम्.अन्न.अद्यम्.उत्तिष्ठति । (द्प्म्)
बर्हिर्.यजति.शरदम्.एव ।
शरदि.हि.बर्हिष्ठा.ओषधयो.भवन्ति ।
स्वाहा.कृतिम्.अन्तम्.यजति.हेमन्तम्.एव । (द्प्म्)
हेमन्ते.वा.इदम्.सर्वम्.स्वाहा.कृतम् ।
तद्.आहुर्.यत्.पञ्च.प्रयाजाः.षड्.ऋतवः.क्वैतम्.षष्ठम्.ऋतुम्.यजति.इति ।
यद्.एव.चतुर्थे.प्रयाजे.समानयति.तद्.एनम्.इतरेष्व्.अनुविभजति । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0