भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 3.3

3.3.1

अग्ने.महान्.असि.ब्राह्मण.भारत.इति ।

3.3.2

अग्निर्.वै.भरतः ।

3.3.3

स.वै.देवेभ्यो.हव्यम्.भरति । (द्प्म्)

3.3.4

अथ.यद्.यजमानस्य.आर्षेयम्.आह ।

3.3.5

न.ह.वा.अनार्षेयस्य.देवा.हविर्.अश्नन्ति । (द्प्म्)

3.3.6

तस्माद्.अस्य.आर्षेयम्.आह ।

3.3.9

अथ.एतम्.पञ्चदश.पदम्.निगदम्.उपसंदधाति । (द्प्म्)

3.3.8

एषा.ह.वै.सामिधेनीनाम्.निवित् ।

3.3.9

तस्मात्.पञ्चदश.पदो.भवति ।

3.3.10

पञ्चदश.हि.सामिधेन्यः ।

3.3.11

स.वा.अच्छन्दस्.कृतो.भवति । (द्प्म्)

3.3.12

द्वयम्.वा.इदम्.सर्वम्.छन्दस्.कृतम्.च.अच्छन्दस्.कृतम्.च ।

3.3.13

तेन.सर्वेण.अग्निम्.स्तवानि.इति । (द्प्म्)

3.3.14

तस्य.सप्त.पदानि.समस्य.अवस्येत् ।

3.3.15

सप्त.वै.छन्दांसि ।

3.3.16

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (द्प्म्)

3.3.17

अथ.चत्वार्य्.अथ.चत्वारि ।

3.3.18

चतुष्टयम्.वा.इदम्.सर्वम् ।

3.3.19

अस्य.एव.सर्वस्य.आप्त्यै । (द्प्म्)

3.3.20

अथ.यद्.व्यवग्राहम्.देवता.आवाहयति ।

3.3.21

नाना.ह्य्.आभ्यो.हवींषि.गृहीतानि.भवन्ति । (द्प्म्)

3.3.22

तस्माद्.व्यवग्राहम्.देवता.आवाहयति ।

3.3.23

अथ.यद्.अग्निम्.अग्निना.आवाहयति । (द्प्म्)

3.3.24

एषा.वा.अग्नेर्.यज्ञिया.तनूर्.या.अस्य.हव्य.वाट् ।

3.3.25

सा.वा.असौ.यद्.अदो.अमुष्याद्.इत्य्.अस्य.उपरिष्टाद्.दिवि.इव.भाति.ज्योतिर्.इव । (द्प्म्)

3.3.26

तद्.यद्.आह.अग्निम्.अग्न.आवह.इति ।

3.3.27

ताम्.आवह.इत्य्.एव.तद्.आह ।

3.3.28

अथ.यद्.देवान्.आज्यपान्.आवाहयति । (द्प्म्)

3.3.29

प्रयाज.अनुयाजांस्.तद्.आवाहयति ।

3.3.30

अथ.यद्.अग्निम्.होत्राय.आवाहयति ।

3.3.31

स्विष्टकृतम्.तद्.आवाहयति । (द्प्म्)

3.3.32

अथ.यत्.स्वम्.महिमानम्.आवाहयति ।

3.3.33

वायुम्.तद्.आवाहयति ।

3.3.34

वायुर्.वा.अग्नेः.स्वो.महिमा । (द्प्म्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc