कौषीतकिब्राह्मण · अध्याय 3.2
अथ.यत्.पुरस्तात्.सामिधेनीनाम्.जपति ।
स्वस्त्ययनम्.एव.तत्.कुरुते ।
हिंकृत्य.सामिधेनीर्.अन्वाह । (द्प्म्)
वज्रो.वै.हिंकारः ।
वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति ।
त्रिर्.हिम्.करोति । (द्प्म्)
त्रिवृद्.वै.वज्रः ।
वज्रम्.एव.तद्.अभिसम्पादयति ।
एतेन.वै.देवास्.त्रिवृता.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (द्प्म्)
तथो.एव.एतद्.यजमान.एतेन.एव.त्रिवृता.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदति । (द्प्म्)
एकादश.सामिधेनीर्.अन्वाह ।
एकादश.अक्षरा.वै.त्रिष्टुप् ।
त्रैष्टुभ.इन्द्रः ।
तद्.उभा.इन्द्राग्नी.आप्नोति । (द्प्म्)
त्रिः.प्रथमया.त्रिर्.उत्तमया.पञ्चदश.सम्पद्यते ।
पञ्चदश.वै.पूर्व.पक्ष.अपर.पक्षयोर्.अहानि । (द्प्म्)
तत्.सामिधेनीभिः.पूर्व.पक्ष.अपर.पक्षाव्.आप्नोति ।
अथो.वज्रो.वै.सामिधेन्यः ।
पञ्चदशो.वै.वज्रः । (द्प्म्)
वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति ।
यद्.व्.एव.त्रिः.प्रथमाम्.त्रिरु.उत्तमाम् । (द्प्म्)
यज्ञस्य.एव.तद्.बर्सौ.नह्यति.स्थेम्ने.अविस्रंसाय ।
तासाम्.वै.त्रीणि.षष्टि.शतान्य्.अक्षराणाम्.भवन्ति । (द्प्म्)
त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् ।
तत्.सामिधेनीभिः.संवत्सरस्य.अहान्य्.आप्नोति । (द्प्म्)
ता.वै.गायत्र्यो.भवन्ति ।
गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । (द्प्म्)
स्वेन.एव.तत्.छन्दसा.अग्निम्.स्तौति ।
अभिरूपा.भवन्ति ।
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (द्प्म्)
उत्तमायै.तृतीये.वचने.प्रणवेन.निगदम्.उपसंदधाति । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0