कौषीतकिब्राह्मण · अध्याय 3.1
यद्.दर्श.पूर्ण.मासयोर्.उपवसति ।
न.ह.वा.अव्रतस्य.देवा.हविर्.अश्नन्ति ।
तस्माद्.उपवसति । (द्प्म्)
उत.मे.देवा.हविर्.अश्नीयुर्.इति ।
पूर्वाम्.पौर्णमासीम्.उपवसेद्.इति.पैङ्ग्यम् ।
उत्तराम्.इति.कौषीतकम् । (द्प्म्)
याम्.पर्यस्तमयम्.उत्सर्पेद्.इति.सा.स्थितिः ।
पूर्वाम्.पौर्णमासीम्.उपवसेद्.अनिर्ज्ञाय.पुरस्ताद्.अमावास्यायाम्.चन्द्रमसम् । (द्प्म्)
यद्.उपवसति.तेन.पूर्वाम्.प्रीणाति ।
यद्.यजते.तेन.उत्तराम् ।
उत्तराम्.उपवसेत् । (द्प्म्)
उत्तराम्.उ.ह.वै.समुद्रो.विजते.सोमम्.अनु.दैवतम् ।
एतद्.वै.देव.सत्यम्.यच्.चन्द्रमाः ।
तस्माद्.उत्तराम्.उपवसेत् । (द्प्म्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0