भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 3.11

3.11.1

अथ.यद्.गार्हपत्ये.पत्नी.सम्याजैश्.चरन्ति ।

3.11.2

गार्हपत्य.भाजो.वै.पत्न्यः । (द्प्म्)

3.11.3

आहवनीय.भाग्.यजमानः ।

3.11.4

तस्माद्.गार्हपत्ये.पत्नी.सम्याजैश्.चरन्ति । (द्प्म्)

3.11.5

ते.वै.चत्वारो.भवन्ति ।

3.11.6

आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (द्प्म्)

3.11.7

ते.वा.उपांशु.भवन्ति ।

3.11.8

रेतः.सिक्तिर्.वै.पत्नी.सम्याजाः ।

3.11.9

उपांशु.वै.रेतः.सिच्यते । (द्प्म्)

3.11.10

अभिरूपा.भवन्ति ।

3.11.11

यद्.यजे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (द्प्म्)

3.11.12

अथ.सोमम्.त्वष्टारम्.देवानाम्.पत्नीर्.अग्निम्.गृहपतिम्.इति । (द्प्म्)

3.11.13

एता.ह.वै.देवता.मिथुनानाम्.ईशते ।

3.11.14

ता.अत्र.प्रीणन्ति ।

3.11.15

ता.अस्मै.प्रीता.मिथुनानि.दधति । (द्प्म्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc