कौषीतकिब्राह्मण · अध्याय 29.7
कालेयम्.अच्छावाकस्य.तस्य.उक्तम्.ब्राह्मणम् ।
षट्पदास्व्.अच्छावाकाय.प्रणयन्ति.षष्ठे.अहन् ।
षष्ठस्य.एव.अह्नो.रूपेण ।
अभि.तष्टा.इव.दीधया.मनीषाम्.इत्य्.अहर्.अहः.पर्यासः ।
प्रजापतिर्.वा.अभितष्टीयम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
प्रजापताव्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।
तद्.वा.अनिरुक्तम्.भवति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अनिरुक्त.उ.वै.प्रजापतिः ।
तत्.प्राजापत्यम्.रूपम् ।
सा.वा.अत्र.एका.एव.निरुक्ता ।
एक.उ.वै.प्रजापतिः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
तत्.प्रजापत्यम्.रूपम् ।
दशर्चम्.भवति ।
दश.इमे.प्राणाः ।
प्राणान्.एव.तद्.यज्ञेषु.च.यजमानेषु.च.दधाति ।
द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
द्व्युक्थस्य.एव.होतुः.प्रत्युद्यमाय ।
अथो.संवत्सरो.वै.होता ।
ऋतवो.होत्राशंसिनः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
तद्.यद्.द्वन्द्वम्.समस्ता.ऋतव.आख्यायन्ते.ग्रीष्मो.वर्षा.हेमन्त.इति ।
तस्माद्.द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अथो.आत्मा.वै.होता ।
अङ्गानि.होत्राश्मसिनः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
तद्.यद्.द्विगुणान्य्.अङ्गानि.भवन्ति ।
तस्माद्.द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0