कौषीतकिब्राह्मण · अध्याय 29.6
द्विपदाः.शस्त्वा.ऐकाहिकानि.शंसन्ति ।
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
प्रतिष्ठानीयम्.वै.छन्दो.द्विपदाः.प्रतिष्ठित्या.एव ।
नौधसम्.ब्राह्मणाच्छंसिनस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
पङ्क्तिषु.ब्राह्मणाच्छंसिने.च.अच्छावाकाय.च.प्रणयन्ति.पञ्चमे.अहन् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
पाङ्क्तम्.हि.पञ्चमम्.अहः ।
गायत्रीषु.ब्राह्मणाच्छंसिने.प्रणयन्ति.षष्ठे.अहन् ।
रैवतस्य.एव.अह्नो.रूपेण । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अहीन.सूक्तानि.षष्ठे.अहनि.शंसन्ति ।
अहीन.संतत्या.अहीन.रूपतायै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अहीनान्त्.सर्वान्.कामान्.आप्नुम.इति ।
न.ह्य्.अत्र.किंचन.हीयते ।
उद्.उ.ब्रह्माण्य्.ऐरत.श्रवस्य.इत्य्.अहर्.अहः.पर्यासः ।
ऋतवो.वा.उदुब्रह्मीयम् ।
ऋतुष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।
ता.वै.षड्.भवन्ति ।
षड्.वा.ऋतवः ।
ऋतुष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0