भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 29.5

29.5.1

अथ.एतान्.शिल्पानि.मध्यमे.त्र्यहे.शस्यन्ते ।

29.5.2

शिल्पवान्.ह्य्.एष.मध्यमस्.त्र्यहो.भवति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.3

विराजश्.च.वैमद्यश्.च.चतुर्थे.अहन् ।

29.5.4

वैराजम्.हि.चतुर्थम्.अहः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.5

पङ्क्तयश्.च.महा.पङ्क्तयश्.च.पञ्चमे.अहन् ।

29.5.6

पाङ्क्तम्.हि.पञ्चमम्.अहः ।

29.5.7

अतिच्छन्दसः.षष्ठे.अहन् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.8

आतिच्छन्दसम्.हि.षष्ठम्.अहः ।

29.5.9

अथो.अपृष्ठम्.वा.उ.तद्.यद्.अन्यत्र.बृहत्यै.क्रियते ।

29.5.10

च्यवन्त.उ.वा.अत्र.बृहत्यै.पृष्ठानि । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.11

शिल्पेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।

29.5.12

अथो.अन्तरिक्षम्.वा.एष.मध्यमस्.त्र्यहः ।

29.5.13

अनारम्भणम्.वा.इदम्.अन्तरिक्षम्.अप्रतिष्ठानम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.14

शिल्पेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।

29.5.15

तानि.वै.तृचानि.भवन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.16

त्रिवृद्.वै.शिल्पम्.नृत्तम्.गीतम्.वादितम्.इति ।

29.5.17

तेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।

29.5.18

मा.चिद्.अन्यद्.वि.शंसत.मा.भेम.मा.श्रमिष्म.इति.मैथाथम्.मैत्रावरुणस्य.दशमे.अहन्.बृहतीषु.पृष्ठम्.भवति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.19

न.हि.तस्य.प्राग्.दशमाद्.अह्नो.बृहतीषु.पृष्ठम्.भवति ।

29.5.20

एकस्था.वै.श्रीः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.5.21

श्रीर्.वै.बृहती ।

29.5.22

श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठन्ते.यन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc