कौषीतकिब्राह्मण · अध्याय 29.4
प्रायणीय.उदयनीययोर्.ऐकाह्यम्.च.भवति ।
वामदेव्यम्.मैत्रावरुणस्य.अहर्.अहः.पृष्ठम्.भवति ।
शान्तिर्.वै.भेषजम्.वामदेव्यम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
शान्तिर्.एव.एषा.भेषजम्.अहर्.अहर्.यज्ञे.क्रियते ।
अथ.एतान्.कद्वतः.प्रगाथान्.अहर्.अहः.शंसन्ति ।
को.वै.प्रजापतिः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
प्रजापताव्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।
अथो.अशान्तानि.वा.एते.अहीन.सूक्तान्य्.अन्यान्य्.अन्यान्य्.उपयुञ्जाना.यन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
तान्य्.एव.एतैः.कद्वद्भिः.प्रगाथैर्.अहर्.अहः.शमयन्तो.यन्ति ।
अथ.एतास्.तन्त्र्यास्.त्रिष्टुभ.उक्थ.प्रतिपदो.अहर्.अहः.शस्यन्ते । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बल.एव.तद्.वीर्ये.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति ।
अप.प्रच.(?).इन्द्र.विश्वान्.अमित्रान्.इति.सौकीर्तिम्.मैत्रावरुणो.अपनुत्तवतीम्.पाप्मन.एव.अपनुत्त्यै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
यद्.आर्षेये.सूक्ते.तद्.आर्षेये.उक्थ.मुखीये.इतरयोः ।
ब्रह्मणा.ते.ब्रह्म.युजा.युनज्म्य्.उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.ब्रह्मवत्य्.उरुवत्यौ । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
ब्रह्मणि.च.एव.तद्.उरु.गाये.च.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0