भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 29.3

29.3.1

वामदेव्यम्.मैत्रावरुणस्य.पृष्ठम्.भवति ।

29.3.2

शान्तिर्.वै.भेषजम्.वामदेव्यम् ।

29.3.3

शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते ।

29.3.4

नौधसम्.ब्राह्मणाच्छंसिनः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.5

तद्.वै.निधनवद्.भवति ।

29.3.6

प्रतिष्ठा.वै.निधनम्.प्रतिष्ठित्या.एव । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.7

कालेयम्.अच्छावाकस्य ।

29.3.8

तद्.वा.ऐडम्.बृहतीषु.कुर्वन्ति ।

29.3.9

पशवो.वा.इडा । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.10

पशवो.बृहती ।

29.3.11

बार्हताः.पशवः.पशूनाम्.एव.आप्त्यै ।

29.3.12

अथ.एतान्त्.साम.प्रगाथान्.अनुशंसन्ति ।

29.3.13

तथा.एषाम्.होतुर्.न्यायाद्.अनितम्.भवति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.14

पञ्चर्चे.मैत्रावरुणस्य.च.अच्छावाकस्य.च.उक्थ.मुखे.भवतः ।

29.3.15

एकादशर्चौ.पर्यासौ । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.16

अन्ताव्.एव.एतत्.सदृशौ.कुर्वतः ।

29.3.17

विश्वामित्रस्य.च.वामदेवस्य.च.मैत्रावरुणः.शंसति ।

29.3.18

वामदेव्यम्.ह्य्.अस्य.पृष्ठम्.भवति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.19

विश्वामित्रस्य.च.वसिष्ठस्य.च.ब्राह्मणाच्छंसी ।

29.3.20

वासिष्ठो.ह्य्.अस्य.पर्यासो.भवति ।

29.3.21

भरद्वाजस्य.च.विश्वामित्रस्य.च.अच्छावाकः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.20

वैश्वामित्रो.ह्य्.अस्य.पर्यासो.भवति ।

29.3.21

भरद्वाजस्य.च.विश्वामित्रस्य.च.अच्छावाकः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.22

वैश्वामित्रो.ह्य्.अस्य.पर्यासो.भवति ।

29.3.23

ते.वै.चतुर्णाम्.ऋषीणाम्.शंसन्ति ।

29.3.24

आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.25

वैश्वामित्रे.मैत्रावरुणस्य.च.ब्राह्मणाच्छंसिनश्.च.उक्थ.मुखे.भवतः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.3.26

पर्यासो.अच्छावाकस्य ।

29.3.27

वाग्.वै.विश्वामित्रः ।

29.3.28

वाचा.एव.तत्.सर्वतो.यज्ञम्.तन्वत.इत्य्.एतद्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc