भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 29.2

29.2.1

अथ.स्तुते.पवमाने.दधि.घर्मेण.चरन्ति.तस्य.उक्तम्.ब्राह्मणम्।

29.2.2

अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् ।

29.2.3

वासिष्ठीर्.मध्यंदिन.उन्नीयमानेभ्यो.अन्वाह । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.2.4

वसिष्ठो.ह.मध्यंदिन.इन्द्राय.सोमम्.प्रोवाच ।

29.2.5

ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.रूपेण । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.2.6

ता.वा.ऐन्द्र्यस्.त्रिष्टुभो.भवन्ति ।

29.2.7

ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् ।

29.2.8

ता.वै.दश.अन्वाह ।

29.2.9

दश.ह्य्.अत्र.चमसान्.उन्नयन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.2.10

अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् ।

29.2.11

ऐन्द्रीभिस्.त्रिष्टुब्भिर्.मध्यंदिने.प्रस्थितानाम्.यजन्ति ।

29.2.12

ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.2.13

अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै ।

29.2.14

आहुतीनाम्.प्रतिष्ठित्यै ।

29.2.15

अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

29.2.16

हुतेषु.दाक्षिणेषु.दक्षिणा.नीयन्ते.तासाम्.उक्तम्.ब्राह्मणम् ।

29.2.17

वैश्वामित्रीम्.मरुत्वतीय.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc