कौषीतकिब्राह्मण · अध्याय 29.1
अथ.यत्र.ह.तत्.सर्व.चरौ.देवा.यज्ञम्.अतन्वत ।
तान्.ह.अर्बुदः.काद्रवेयो.मध्यंदिन.उपोदासृप्या.(?).उवाच । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
एका.वै.व.इयम्.होत्रा.न.क्रियते.ग्राव.स्तोत्रिया ।
ताम्.वो.अहम्.करवाण्य्.उप.मा.ह्वयध्वम्.इति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
ते.ह.तथा.इत्य्.ऊचुः ।
तम्.ह.उपजुहुविरे ।
स.एता.ग्राव.स्तोत्रिया.अभिरूपा.अपश्यत् । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
प्र.एते.वदन्तु.प्र.वयम्.वदाम.इति.प्रवदत्सु ।
प्र.हि.ते.वदन्ति.प्रसवदति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अथ.यत्र.बृहद्.बृहद्.इति ।
बृहद्.वदन्ति.मदिरेण.मन्दिना.इति.तत्र । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
वि.षू.मुञ्च.इति.विमुञ्चत्सु ।
ता.वै.चतुर्दश.भवन्ति ।
दश.वा.अङ्गुलयश्.चत्वारो.ग्रावाणः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
एतद्.एव.तद्.अभिसम्पद्यन्ते ।
ता.वै.जगत्यो.भवन्ति ।
जागता.वै.ग्रावाणः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
अथ.यत्.त्रिष्टुभा.परिदधाति ।
ता.वै.जगत्यो.भवन्ति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
जागता.वै.ग्रावाणः ।
अथ.यत्.त्रिष्टुभा.परिदधाति ।
तेनो.मध्यंदिने.त्रिष्टुब्.उपाप्ता । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
स.वै.तिष्ठन्न्.अभिष्टौति ।
तिष्ठन्ति.इव.वै.ग्रावाणः ।
स.वा.उष्णीष्य्.अपिनद्ध.अक्षो.अभितुष्टाव ।
तस्माद्.व्.अप्य्.एतर्ह्य्.उष्णीष्य्.एव.ग्राव्णो.अभिष्टौति ।
अथो.खल्व्.आहुः । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
चक्षुर्.हा.ह.स.सर्प.आस ।
तद्.ऋत्विजो.विषम्.अपीयाय ।
स.एताः.पावमानीर्.विष.अपमदनीर्.अभितुष्टाव ।
तद्.यत्.पावमानीर्.विष.अपमदनीर्.अभिष्टौति । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
यज्ञस्य.एव.शान्त्यै ।
यजमानस्य.च.भिषज्यायै । (सोम: होत्रक.शस्त्राणि(माध्यंदिन.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0