कौषीतकिब्राह्मण · अध्याय 28.8
अथ.यद्.आवन्तः.स्तोत्रिया.अनुरूपा.भवन्ति.तत्.प्रथमस्य.अह्नो.रूपम् ।
वैश्वामित्रौ.मैत्रावरुणस्य.च.अच्छावाकस्य.च.स्तोत्रियौ.भवतः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
वासिष्ठौ.नवर्चौ.पर्यासौ ।
अन्ताव्.एव.एतत्.सदृशौ.कुर्वतः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
स्तोत्रियान्.शस्त्वा.श्वः.स्तोत्रियान्.अनुरूपम्.कुर्वते ।
अहीन.संतत्या.अहीन.रूपतायै । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अहर्.एव.तद्.अह्नो.अनुरूपम्.कुर्वते ।
अहर्.वा.अह्नो.अनुरूपम् ।
तद्.आहुः.कस्मात्.स्तुतम्.अनुशस्यते.कस्मात्.स्तोमम्.अतिशंसन्ति.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
न.वै.तत्.स्तुतम्.भवति.यन्.न.अनुशस्यते ।
न.स.स्तोमो.देवान्.गच्छति.यम्.न.अतिशंसन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तस्मात्.स्तुतम्.अनुशस्यते.तस्मात्.स्तोमम्.अतिशंसन्ति.इति ।
चतुर्.आहावानि.शस्त्राणि । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
पशवो.वा.उक्थानि ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।
ऐकाहिका.उक्थ.याज्याः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव ।
अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै ।
आह्तीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0