भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 28.7

28.7.1

बाहू.मैत्रावरुणश्.च.अच्छावाकश्.च ।

28.7.2

तौ.वै.द्विगुणौ.भवतः ।

28.7.3

तस्मात्.तौ.प्रातः.सवने.द्विदेवत्याः.शंसतः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.7.4

इयम्.एव.वेना.सेवनी.मध्यम्.ब्राह्मणाच्छंसी ।

28.7.5

तस्माद्.ब्राह्मणाच्छंसी.प्रातः.सवन.एक.देवत्याः.शंसति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.7.6

आत्मा.मध्यंदिनः ।

28.7.7

स.वा.एक.एव.भवति ।

28.7.8

तस्मान्.मध्यंदिने.होत्रा.आशंसिन.एकदेवत्याः.शंसन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.7.9

होता.च.निष्केवल्यम् ।

28.7.10

ऊरू.मैत्रावरुणश्.च.अच्छावाकाश्.च । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.7.11

तौ.वै.द्विगुणौ.भवतः ।

28.7.12

तस्मात्.तौ.तृतीय.सवने.द्विदेवत्याः.शंसतः ।

28.7.13

इदम्.एव.शिश्नम्.मध्यम्.ब्राह्मणाच्छंसी ।

28.7.14

तस्माद्.द्विरूपम्.जायते.स्त्री.च.पुमांश्.च ।

28.7.15

तस्माद्.ब्राह्मणाच्छंसी.तृतीय.सवने.द्विदेवत्याः.शंसति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.7.16

ब्राह्मणाच्छंसी.भूयिष्ठाः.शंसति ।

28.7.17

मध्यम्.वै.ब्राह्मणाच्छंसी ।

28.7.18

तस्माद्.इदम्.आत्मनो.मध्यम्.स्थविष्ठम् । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc