भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 28.6

28.6.1

प्रत्य्.अस्मै.पिपीषत.इत्य्.अच्छावाक.उन्नीयमानाय.अन्वाह ।

28.6.2

ता.वै.चतस्रो.भवन्ति ।

28.6.3

चतुष्टयम्.वा.इदम्.सर्वम् ।

28.6.4

अस्य.एव.सर्वस्य.आप्त्यै । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.5

ऐन्द्रीर्.अन्वाह ।

28.6.6

ऐन्द्रो.हि.यज्ञ.क्रतुः ।

28.6.7

ता.वा.अनुष्टुभो.भवन्ति.संशंसायै ।

28.6.8

बृहत्य्.उत्तमा.भवति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.9

श्रीर्.वै.बृहती ।

28.6.10

श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठति ।

28.6.11

प्रातर्.यावभिर्.आ.गतम्.इत्य्.ऐन्द्राग्न्या.यजति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.12

ऐन्द्राग्नम्.ह्य्.अस्य.उक्थम्.भवति ।

28.6.13

गायत्र्या.गायत्रम्.प्रातः.सवनम् ।

28.6.14

अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.15

आहुतीनाम्.प्रतिष्ठित्यै ।

28.6.16

अनवानम्.प्रातः.सवने.यजेयुर्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.17

क्षिप्रम्.देवेभ्यो.हविः.प्रयच्छाम.इति ।

28.6.18

अर्धर्चश.इति.कौषीतकिः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.19

एतद्.वै.छन्दसाम्.पर्व.यद्.अर्धर्चः ।

28.6.20

पर्वश.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.21

अथ.अत.ऋतु.प्रैषाणाम्.एव.मीमांसा ।

28.6.22

कण्वो.ह.एतान्.ऋतु.प्रैषान्.ददर्श ।

28.6.23

मेधातिथिर्.याज्याः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.24

काण्वो.ह.वै.मेधातिथिः ।

28.6.25

तेन.तौ.मृत्युम्.पाप्मानम्.अपजिघ्नाते ।

28.6.26

स.य.इच्छेन्.मृत्युम्.पाप्मानम्.अपहन्याम्.इति । (सोम: एताभिर्.जयेत् ।27

28.6.28

पुरुषो.वै.यज्ञः ।

28.6.29

तस्य.वाग्.एव.आज्यम् ।

28.6.30

सा.वा.एका.एव.भवति । (होत्रक.शस्त्राणि(प्रातः.सवनम्))

28.6.31

तस्माद्.एक.देवत्यम्.आज्यम्.शंसति ।

28.6.32

प्राणाः.प्रौगम् ।

28.6.33

ते.वा.इमे.बहवः.प्राणाः ।

28.6.34

तस्माद्.बह्व्यो.देवताः.प्रौगे.शस्यन्ते । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc