कौषीतकिब्राह्मण · अध्याय 28.5
अथ.एनम्.अध्वर्युर्.आह.अच्छावाक.वदस्व.यत्.ते.वाद्यम्.इति ।
अच्छावाक.उपहवम्.इच्छस्व.इत्य्.एव.एनम्.तद्.आह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अच्छा.वो.अग्निम्.अवस.इत्य्.अच्छावाक.आग्नेयीर्.अन्वाह ।
आग्नेयम्.प्रातः.सवनम् । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ता.वा.अनुष्टुभो.भवन्ति ।
गायत्री.वै.सा.अनुष्टुप् ।
गायत्रम्.अग्नेश्.छन्दः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ता.वै.तिस्रो.भवन्ति ।
त्रिवृद्.वा.अग्निर्.अङ्गारा.अर्चिर्.धूम.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
उत्तमायै.तृतीये.वचने.प्रणवेण.निगदम्.उपसंदधाति ।
यजमान.होतर्.अध्वर्यो.अग्नीद्.ब्रह्मन्.पितर्.नेष्टर्.उत.उपवक्तर्.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
प्रशास्ता.वा.उपवक्ता ।
अपि.वा.ऋचा.अभ्युदितम् ।
उपवक्ता.जनानाम्.इति ।
इषेषयध्वम्.(?).ऊर्जोर्.जयध्वम् ।
अन्नम्.वा.इषम्.अन्नम्.ऊर्जम् ।
अन्नेन.समुक्षध्वम्.इत्य्.एव.एनांस्.तद्.आह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
नि.वो.जामयो.जिहताम्.न्य्.अजामय.इति ।
यच्.च.जामि.यच्.च.अजामि । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तद्.वो.निजिहताम्.इत्य्.एव.एनांस्.तद्.आह ।
अपि.वा.ऋचा.अभ्युदितम् ।
जामिम्.अजामिम्.प्र.मृणीहि.शत्रून्.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
नि.सपत्ना.यामनि.बाधितास.इति ।
निहता.वः.सपत्ना.समरण.इत्य्.एव.एनांस्.तद्.आह ।
जेषथ.अभीत्वरीम्.जेषथ.अभित्वर्या.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
सेना.अभीत्वरी ।
सेनया.सेनाम्.जयत.इत्य्.एव.एनांस्.तद्.आह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
श्रवद्.व.इन्द्रः.शृणवद्.वो.अग्निर्.इति ।
शृणोतु.न.इन्द्रः.शृणोत्व्.अग्निर्.इत्य्.आशिषम्.एव.तद्.वदते ।
प्रस्थाय.इन्द्र.अग्निभ्याम्.सोमम्.वोचत.उपो.अस्मान्.ब्राह्मणान्.ब्राह्मण.आह्वयध्वम्.इति ।
सर्वेष्व्.एव.तद्.उपहवम्.इच्छते । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तम्.होता.उपह्वयते ।
स.हि.तेषाम्.श्रेष्ठी.भवति ।
यम्.वै.श्रैष्ठ्य्.उपह्वयते ।
स.उपहूत.इति.ह.स्म.आह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0