कौषीतकिब्राह्मण · अध्याय 28.4
अथ.यत्र.ह.तन्.नाभानेदिष्ठो.मानवो.अङ्गिरः.सु.उपहवम्.ईषे ।
स.एताम्.होत्राम्.अच्छावाकीयाम्.प्रोवाच । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
स.वा.उपहूतायाम्.इडायाम्.आजगाम ।
तस्मात्.तन्.न.प्रवृणते । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
स.वा.एतस्मात्.पूर्वस्माद्.उत्तराद्.अवान्तर.देशाद्.आजगाम ।
तस्माद्.एतस्याम्.दिश्य्.आसीनो.अच्छावाक.उपहवम्.इच्छते । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तद्.आहुः.कस्माद्.अच्छावाकाय.पुरोडाश.दृगलम्.परिहरन्ति.इति ।
अलीकयुर्.ह.वाचस्.पतो.नैमिशीयानाम्.दीक्षा.उपसत्सु.ब्रह्मा.आस ।
स.ह.प्रसुते.अच्छावाकीयाम्.चकार ।
ते.ह.ऊचुः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अस्मै.वा.इमम्.पुरा.ब्रह्म.भागम्.पर्यहरन् ।
कस्मा.एनम्.परिहराम.इति ।
तस्मा.एव.एनम्.परिहरत.इत्य्.ऊचुः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तम्.तस्मै.परिजह्रुः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
स.एष.ब्रह्म.भाग.एव ।
अथो.इडा.भाजो.वा.इतरे.चमसाः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तस्माद्.अच्छावाकाय.पुरोडाश.दृगलम्.परिहरन्ति ।
चमसस्य.एव.अपरीडतायै । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0