कौषीतकिब्राह्मण · अध्याय 28.3
वैश्वामित्रीम्.पुरोडाश.स्विष्टकृतः.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् ।
वैश्वामित्रीर्.अनुसवनम्.पुरोडाशानाम्.पुरोनुवाक्या.अन्वाह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
विश्वामित्रो.ह.एतान्.पुरोडाश.प्रैषान्.ददर्श.सलोमतायै ।
माधुच्छन्दस्याव्.अभिरूपे.द्विदेवत्यानाम्.प्रथमस्य.पुरोनुवाक्ये.अन्वाह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मधुच्छन्दा.ह.एतान्.द्विदेवत्य.प्रैषान्.ददर्श.सलोमतायै ।
गार्त्समदीम्.च.मैधातिथीम्.च.उत्तरयोर्.अभिरूपे.अन्वाह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मैधातिथीः.प्रातः.सवन.उन्नीयमानेभ्यो.अन्वाह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मेधातिथिर्.ह.प्रातः.सवन.इन्द्राय.सोमम्.प्रोवाच ।
ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.अनुरूपेण । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ता.वा.ऐन्द्र्यो.भवन्ति ।
ऐन्द्रो.हि.यज्ञ.क्रतुः ।
ता.वै.गायत्र्यो.भवन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
गायत्रम्.प्रातः.सवनम् ।
ता.वै.नव.अन्वाह ।
नव.न्व्.आ.अत्र.चमसान्.उन्नयन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
षड्.उ.ह.एके.प्रातः.सवन.उन्नीयमानेभ्यो.अन्वाहुः ।
स्वयम्.अच्छावाकः.सप्तमीम् । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
सप्त.सप्त.उत्तरयोः.सवनयोः ।
सप्त.वै.प्राञ्च.आसीना.वषट्.कुर्वन्ति.इति.वदन्तः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तद्.वै.खलु.यथा.सूक्तम्.एव.अनुब्रूयात् ।
होतुर्.ह्य्.एव.एताः.पुरोनुवाक्या.भवन्ति ।
होतुर्.ह्य्.एव.अनुचमसम्.एतांश्.चमसान्.उन्नयन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अथ.होत्राः.सम्यजन्ति ।
यजमानम्.एव.तद्.अनृणतायै.सम्प्रमुञ्चन्ति ।
मित्रम्.वयम्.हवामह.इति.मैत्रावरुण्या.मैत्रावरुणः.स्वया.एव.देवतया । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
यज्म.मुखस्य.अनवर.अर्ध्यै ।
इन्द्र.त्वा.वृषभम्.वयम्.इत्य्.ऐन्द्र्या.ब्राह्मणाच्छंसी । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ऐन्द्रो.हि.यज्ञ.क्रतुः ।
मरुतो.यस्य.हि.क्षय.इति.मारुत्यो.पोता । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
यत्र.ह.तद्.इन्द्रम्.मरुतः.पुपुवुः ।
तद्.एनान्.इन्द्रः.सोम.पीथे.अन्वाभेजे । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तस्मात्.स.मारुत्या.पोता.प्रथमतश्.च.अन्ततश्.च.यजति ।
अग्ने.पत्नीर्.इह.आ.वह.इत्य्.आग्निपात्नीवत्या.त्वष्टृमत्या.न.नेष्टा । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
त्वष्टा.वै.देवानाम्.पात्नीवतो.नेष्टा.ऋत्विजाम् । (होत्रक.शस्त्राणि(प्रातः.सवनम्))
तस्मात्.स.आग्निपात्नीवत्या.त्वष्टृमत्या.नेष्टा.प्रथमतश्.च.अन्ततश्.च.यजति ।
उक्ष.अन्नाय.वशा.अन्नाय.इत्य्.आग्नेय्य्.आग्नीध्रः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अग्निम्.हि.स.समिन्धे ।
तस्मात्.स.आग्नेय्य्.आग्नीध्रः.प्रथमतश्.च.अन्ततश्.च.यजति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0