कौषीतकिब्राह्मण · अध्याय 28.2
तान्.एतान्.प्रैषान्.विश्वामित्रो.ददर्श ।
अथो.पुरोडाश.प्रैषान् ।
अथ.इतर.ऋषय.इतरान् । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तद्.आहुः.कस्मान्.मैत्रावरुण.एव.सर्वेभ्यः.प्रेष्यति.इति ।
एता.ह.वै.देवताः.प्रैषाणाम्.आजिमीयुः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तन्.मित्रावरुणा.उज्जिग्यतुः ।
तस्मान्.मैत्रावरुण.एव.सर्वेभ्यः.प्रेष्यति ।
स.वै.तिष्ठन्.प्रेष्यति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तिष्ठन्.वै.वीर्यवत्तमः ।
तिष्ठन्न्.आश्रुत.वदनतमः ।
वीर्यवतीम्.आश्रुताम्.देवेषु.वाचम्.उद्यासम्.इति ।
कुवक्र.इव.प्रणतो.अनुब्रूयात् । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तथा.ह.वर्षुकः.पर्जन्यो.भवति.इति.ह.स्म.आह.कौषीतकिः । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
तद्द्.ह.स्म.वै.पुरा.असुर.रक्षसानि.हवींषि.विमथ्नते ।
तत.एता.वामदेवो.अभिरूपा.अपश्यद्.अग्निर्.होता.नो.अध्वर.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ताभिर्.ह.अग्निम्.परिनिण्युः ।
ततो.वै.तानि.रक्षांसि.नाष्ट्रा.अपजघ्निरे ।
जुषस्व.सप्रथस्तमम्.इति.जुष्टवतीम्.अभिरूपाम्.अन्वाह । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
जुष्टवतीम्.अभिरूपाम्.देवेषु.वाचम्.उद्यासम्.इति ।
इमम्.नो.यज्ञम्.अमृतेषु.धेहि.इति ।
स्तोकान्.एव.एताभिर्.अग्नये.स्वदयति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
एता.ह.वा.उ.तेषाम्.पुरोनुवाक्या.एता.याज्याः ।
तस्माद्.अभिरूपा.भवन्ति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0