कौषीतकिब्राह्मण · अध्याय 28.1
प्रजापतिर्.हि.यज्ञम्.ससृजे ।
तेन.ह.सृष्टेन.देवा.ईजिरे ।
तेन.ह.इष्ट्वा.सर्वान्.कामान्.आपुः । (सोम: होत्रक.शस्त्राणि. (सोम: प्रातः.सवनम्))
तस्य.हेतोर्.आर्ध्यम्.अपनिदधुः ।
य.एते.प्रैषाश्.च.निगदाश्.च । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
अथ.इतरेण.यज्ञेन.ऋषय.ईजिरे ।
ते.ह.विजज्ञुः ।
असर्वेण.ह.वै.यज्ञेन.यजामहै.न.वै.सर्वान्.कामान्.आप्नुम.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
ते.ह.श्रेमुः ।
त.एते.प्रैषांश्.च.निगदांश्.च.ददृशुः ।
तेन.ह.सप्रैषेण.सनिगदेन.इष्ट्वा.सर्वान्.कामान्.आपुः । (होत्रक.शस्त्राणि(प्रातः.सवनम्))
एतावते.ह.वा.उ.प्रैषाश्.च.निगदाश्.च ।
यद्.ऋग्भिर्.यज्ञस्य.अनाप्तम्.तद्.एभिः.सर्वम्.आप्स्याम.इति । (सोम: होत्रक.शस्त्राणि(प्रातः.सवनम्))
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0