कौषीतकिब्राह्मण · अध्याय 27.12
गायत्र.प्रातः.सवनः.प्रथमस्.त्र्यहस्.त्रिष्टुब्.मध्यंदिनो.जगत्.तृतीय.सवनः ।
जगत्.प्रातः.सवनो.द्वितीयस्.त्र्यहः.गयत्र.मध्यंदिनस्.त्रिष्टुप्.तृतीय.सवनः । (सोम: दशमम्.अहह्)
त्रिष्टुप्.प्रातः.सवनस्.तृतीयस्.त्र्यहो.जगन्.मध्यंदिनो.गायत्र.तृतीय.सवनः । (सोम: दशमम्.अहह्)
गायत्र्.प्रातः.सवनम्.दशमम्.अहः ।
तत्.समानाच्.छन्दस.समानम्.छन्द.उपसंगच्छन्ते ।
अथ.यद्.दशमम्.अहर्.अनुष्टुभम्.अभिसम्पादयति ।
वाग्.वा.एतद्.अहः ।
वाग्.अनुष्टुप् ।
वाच्य्.एव.तद्.वाचम्.प्रतिष्ठापयन्ति ।
ते.अमृतत्वम्.आप्नुवन्ति.ये.दशमम्.अहर्.उपयन्ति.ये.दशमम्.अहर्.उपयन्ति । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0