कौषीतकिब्राह्मण · अध्याय 27.9
अन्नादी.च.अन्न.पत्नी.च ।
इयम्.वा.अन्न.अद्यसाव्.अन्न.पत्नी ।
भद्रा.च.कल्याणी.च । (सोम: दशमम्.अहह्)
भद्रा.तत्.सोमः ।
कल्याणी.तत्.पशवः ।
अनिलया.च.अपभया.च । (सोम: दशमम्.अहह्)
अनिलया.तद्.वायुः ।
न.ह्य्.एष.इलयति ।
अपभया.तन्.मृत्युः ।
न.ह्य्.एष.बिभेति । (सोम: दशमम्.अहह्)
अनाप्ता.च.अनाप्या.च ।
इयम्.वा.ननाप्ता ।
असौ.द्यौर्.अनाप्या ।
अनाधृष्टा.च.अनाधृष्या.च ।
अयम्.वा.अग्निर्.अनाधृष्टा ।
अभ्रातृव्या.तत्.संवत्सरः । (सोम: दशमम्.अहह्)
सो.असाव्.एव.गृहपतिर्.यो.असौ.तपति ।
एष.हि.गृहाणाम्.पतिः ।
तस्य.ऋतव.एव.गृहाः ।
एष.पतिः ।
एष.उ.देवो.अपहत.पाप्मा । (सोम: दशमम्.अहह्)
उदाद्रवत्य्.अध्वर्युः ।
अपिदधति.सदसो.द्वारौ.शालायाश्.च । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0